Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 270
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandie परित्यज्य आत्मीयं च शकटपिटकमुद्गृह्य परम्परं स्वामिनं द्राग ब्रजति यत्र स्वास्थ्यं लभते इय पञ्चक परिहीने गच्छे श्रावन्नकारणे साहु / बालोयणमलहंतो परंपरं वच्चए सिद्धे॥ इति एवमनेन दृष्टान्तप्रकारेण पञ्चकपरिहीने आचार्यादिपञ्चकविरहिते गच्छेतत् प्रायश्चित्तस्थानमापन्नः साधुः कारणेन प्रागुक्ते आयुर्व्याघातादिरूपेण निजाचार्यादीनामन्तिके आलोचनामलभमानः सूत्रोक्त्या नीत्या परम्परमन्यसांभोगिकादिकं ताबद्वजति यावसिद्धान् गच्छति एतदेव सविशेषमाहआयरिए पालोयण, पंचण्हं असति गच्छे बहिया जो। ववच्चे चउलहुगा, गीयत्थे होंति चउ गुरुगा। आचार्ये आचार्यसमीपे आलोचना दातव्या, / गच्छे पश्चानामाचार्यादीनामसतिगच्छादहिर्गन्तव्यम् / इयमत्र भावनाप्रायश्चित्तस्थानमापन्नेन साधुना नियमतः स्वकीयानामाचार्याणां समीपे आलोचयितव्यम् / तेषामभावे उपाध्यायस्य, तस्याप्यभावे प्रवर्तिनस्तस्याप्यभावे स्थविरस्य, तस्याप्यभावे गणावच्छेदिनः। अथ स्वगच्छे पश्चानामप्यभावस्ततो बहिरन्यस्मिन् सांभोगिक गन्तव्यम् / तत्राप्याचार्यादिक्रमेण आलोचयितव्यम् / सांभोगिकानामाचार्यादीनामभावे संविनानामसांभोगिकानां समीपे गन्तव्यम् / तत्राप्याचार्यादिक्रमेणालोचना प्रदातव्या / यदा पुनरुक्तक्रमोल्लङ्घनेनालोचनां प्रयच्छति / तदा प्रायश्चित्तं चतुर्लघु। तथा चाह-ववच्चे चउ लहुगा इति व्यत्यये विपर्यासे उक्तक्रमोल्लकने इत्यर्थः / चत्वारो लघुका लघुमासाः यदि पुनरुक्तक्रममुल्लङ्घयन् अगीतार्थसमीपे आलोचयति / तदा प्रायश्चित्तं चतुर्गुरु एतदेवाह-गीयत्थे होति चउ गुरुगा। तदेवं संविग्नानां सांभोगिकान् यावत् विधिरुक्तः सम्प्रति शेषान् प्रतिविधिमाह For Private and Personal use only

Loading...

Page Navigation
1 ... 268 269 270 271 272 273 274 275 276