Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie त्यन्ताभ्यस्ततया यथावस्थतया स्वरूपस्य सूत्रस्यानुवर्तनं भवति / तथा पाडिच्छेति येऽन्यतो गच्छान्तरादागत्य साधवस्तत्रोपसम्पदं गहते ते प्रतीच्छका उच्यन्ते / ते च सूत्रवाचनाप्रदानेनानुगृहीता भवन्तीति वाक्यशेषः। तथा मोहजयः कृतो भवति / सूत्रवाचनादानव्यग्रस्य सतः प्रायश्चित्तविश्रोतसिकाया प्रभावात् / यत एवं गुणास्तस्मादुपाध्यायः सूत्रं वाचयेत् / पाठान्तरं 'तम्हा उ गणीउ वाएत्ति' अत्रापि स एवार्थो नवरं गणी उपाध्यायः / उक्तमुपाध्यायस्वरूपमधुना प्रवर्तिस्वरूपमाहतवनियमविणयगुणनिहि, पवत्तया नाण सणचरित्ते / संगहुवग्गहकुसला पवत्ति एयारिसा होंति॥ तपो द्वादशप्रभेदं नियमा विचित्रा द्रव्याद्यभिग्रहाः / विनयो ज्ञानादिविनयः। तपोनियमविनया एव गुणा स्तेषां निधय इव तपोनियमविनयगुणनिधयस्तेषां प्रवर्तकाः / तथा ज्ञानदर्शनचारित्रेषु उद्युक्ताः सततोपयोगवन्त इति वाक्यशेषः / तथा संग्रहः शिष्याणां सहणामुपग्रहस्तेषामेव ज्ञानादिषु सीदतामुपष्टम्भकरणं तयोः सङ्ग्रहोपग्रहयोः कुशला एतादृशा एवरूपाः प्रवर्त्तिनो भवन्ति / यथोचितं प्रशस्तयोगेषु साधुन् प्रवत्यतीत्येव शीला: प्रवर्तिनः इति व्युत्पत्ते स्तथाचाहसंजम तव नियमसुं जो जोगो तत्थतं पवत्तेति; असहय नियत्ती, गणतत्तील्लो पवत्तीयो॥ तप संयमनियम योगेषु मध्ये यो यत्र योग्यस्तं तत्र प्रवर्तयन्ति असहांश्वासमांश्च निवर्तयन्ति / एवं गणताप्तिप्रवृत्ताः प्रवर्तिनः उक्तं प्रवर्तिस्वरूपमधुना स्थविरस्वरूपमाह संविग्गो महवितो पियधम्मो नाणदंसणचरित्ते / जे अपरिहायति सारतो तो हवइ थेरो॥ यः संविग्नो मोचाभिलाषी मार्दवितः संजातमार्दवः प्रियधर्मा एकान्तववभः संयमानुष्ठाने यो शानदर्शनचारित्रेषु मध्ये For Private and Personal use only

Page Navigation
1 ... 266 267 268 269 270 271 272 273 274 275 276