Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 266
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वणिज इव राजाद्यभावे साधोरपि तत्र गच्छे वासो न कन्पते / यत्र इमे वक्ष्यमाणागुणानामाकराः स्थानानि गुणाकराः पञ्च न सन्ति के ते इत्याह-आचार्य उपाध्यायः प्रवृत्तिः स्थविरो गीतार्थश्च / तत्र कीदृशः आचार्यस्तत्स्वरूपमाह। सुत्तत्थ तदुभएहिं उवउत्ता नाणदंसणचरित्ते / गणतत्ति विप्पमुक्का एरिसया होति पायरिया // ये सूत्रार्थतदुभरुपेता इति गम्यते। तथा सततं ज्ञानदर्शनचारित्रेसमाहारो द्वन्द्वः ज्ञानदर्शनचारित्रेषु उपयुक्ताः कृतोपयोगास्तथा गणस्य गच्छस्य या तप्तिः सारा तया विषमुक्ता गणावच्छेदप्रभृतीनां तत्तप्तेः समर्पितत्वात् , उपलक्षणमेतत् , शुभलक्षणोपेताच य एतादृशा भवन्त्याचार्याः / ते चार्थमेव केवलं भाषन्ते न तु सूत्रमपि वाचयन्ति तथा चोक्तम्सुत्तत्थविऊ लक्खणजुत्तो गच्छस्स मेटि(ढि)भूतो य। गणतत्ति विप्पमुक्को अत्थं भासेइ पायरिओ॥ अथ किं कारणमाचार्याः स्वयं सूत्रं न वाचयन्ति / तत आहएगग्गया य ज्झाणे वुड्डी तित्थयर अणुग्गई गरुया। आणाघेजमितिगुरु, कयरिणमोक्खो न वाएइ॥ सूत्रवाचनाप्रदानपरिहारेणार्थमेव केवलं व्याख्यानाय आचार्यस्य एकाग्रता एकाग्रमनस्कता ध्यानेऽर्थचिन्तनात्मके भवति / यदि पुनः सूत्रमपि वाचयेत्तदा बहुव्यग्रत्वादर्थचिन्तायामेकाग्रता न स्यात् , एकाग्रतयापि को गुण इत्यत आहवृद्धिः एकाग्रस्य हि सतोऽथ चिन्तयतः सूत्रार्थस्य / तत्र सूक्ष्मार्थोन्मीलनात् वृद्धिरुपजायते तथा तीर्थकरानुकतिरेवं कृता भवति / तथा हि तीर्थकृतो भगवन्तः किलार्थमेव केवलं भाषन्ते, न तु सूत्रं नापि गणतप्तिं कुर्वन्ति / एवमाचार्या अपि तथा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276