Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 267
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir PIK तृतीयो विभाग श्री व्यवहारसूत्रस्य। पीठिका नंतर // 13 // वर्तमानास्तीर्थकरानुकारिणो भवन्ति / सूत्रवाचनां तु प्रयच्छतामाचार्याणां लाघवमप्युपजायते तद्वाचनायास्ततोऽधस्तनपदवर्षिभिरप्युपाध्यायादिभिः क्रियमाणत्वादेवं तस्य तथा वर्तमानस्य लोके राज्ञ इव महती गुरुता प्रादुर्भवति तद्गुरुतायां च प्रवचनप्रभावना तथा आज्ञायां स्थैर्यमाज्ञास्थैर्य कृतं भवति तीर्थकृतामेवमाज्ञा पालिता भवतीत्यर्थः / इयं हि तीर्थकृतामाज्ञा यथोक्तप्रकारेणममानुकारिणा प्राचार्येण भवितव्यमिति / इत्यस्मात् हेतुकलापात् गुरुराचार्यः कृतः ऋणमोक्षो येन स कृतऋणमोक्षस्तेन हि सामान्यावस्थायामनेके साधवः सूत्र मध्यापितास्तत ऋणमोक्षस्य कृतत्वात्सूत्रं न वाचयति उक्तमाचार्यस्वरूपमिदानीमुपाध्यायस्वरूपमाहसुत्तत्थतदुभयविऊ उज्जुत्ता नाणदंसणचरित्ते / निप्पायगसिस्साणं एरिसया होंति उवज्झाया // ये सूत्रार्थ तदुभयविदो ज्ञानदर्शनचारित्रेषयुक्तास्तथा शिष्याणां सूत्रवाचनादिना निष्पादका एतादृशा भवन्ति उपाध्यायाः / / उक्तं चसंमत्तनाणसंजम, जुत्तोसुत्तत्थतदुभय विहिण्णू। आयरियठाणजोग्गो सुत्तं वाएइ उवज्झातो // अथ कस्मात्सूत्रमुपाध्यायो वाचयति तदुच्यते-अनेकगुणसंभवाचानेवाहसुत्तत्थेसु थिरतं, ऋणमोक्खो श्रायतीय पडिबंधो। पाडिच्छेमोहजो, तम्हा वाए उवज्झातो॥ उपाध्यायः शिष्येभ्यः सूत्रवाचनां प्रयच्छन् स्वयमर्थमपि परिभावयति / सूत्रेऽर्थे च तस्य स्थिरत्वमुपजायते / तथान्यस्य सूत्रवाचनाप्रदानेन सूत्रलक्षणस्य ऋणस्य मोक्षःकृतो भवति / तथा आयत्यामागामिनि काले आचार्यपदाध्यासेऽप्रतिबन्धोऽ // 13 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 265 266 267 268 269 270 271 272 273 274 275 276