Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 250
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततः कस्मादुपस्थाप्यते / अत्र मूरिराह-दृष्टान्तोनाक्षभङ्गेन यथा शकटस्याने भन्ने नियमादन्योऽक्षः क्रियत एवं साधोरपि भावाने भग्ने पुनरुत्थापनारूपो भावाक्ष आधीयते अक्षोधूः पुनरपि परः प्राहमूलगुण उत्तरगुणे असेवमाणस्त तस्स अतियारं। तक्खण उवट्रियस्स उ किं कारण दिज्जए मूलं॥ मूलगुण मूलगुणविषये उत्तरगुण विषये किश्चिदप्पतीचारं तस्याप्रतिसेवमानस्य कथमप्रतिसेवनेत्यत आह-तत् क्षणं लिङ्गोज्झनानन्तरं तत्कालम पुनः करणतया समुत्थितस्य न भावाक्षो भग्न इति / किं कारणं तस्मै मूलं दीयते / उपस्थापना क्रियते मूरिराहसेवउ मा व वयाणं, अइयारं तहवि देंति से मुलं / विगडासवा जलम्मि उ, कहंतु नावा न वोडेजा॥ व्रतानां प्राणातिपातविनिवृत्यादीनामतीचारं सेवतां वा मा वा तथापि से तस्य प्रवचनोपनिषद्वेदिनो मूलं ददति / भावतोऽसंवृताश्रवद्धारतया चारित्रभङ्गात् तत्रैव प्रतिवस्तूपमया भावनामाह ! वियडासवेत्यादि विकटानि अतिप्रकटानि स्थूराणीत्यर्थः / आश्रवाणि जलप्रवेशस्थानानि यस्याः सा तथारूपा सती नौः कथं तु जले प्रक्षिप्ता न निमजेदिति भावः / आश्रवद्वाराणामतिप्रकटानां भावादेवं साधुरपि भावतोऽनिवारिताश्रयः सम्भशुभकर्मजले निमजतीति भवति तस्योपस्थापनाहता / अत्रैव दृष्टान्तान्तरमाहचोरिस्सामिति मति, जो खलु संधाइ फेडए मुई। अहियंमि वि सो चोरो, एमेव इमं पिपासामो।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276