Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युर्यावदाचार्योपाध्यायादि समीपे गच्छति तावत् न प्रभवति स्तोकावशेषत्वात् , तत आयुषो व्याघातं वा समाश्रित्य तथा भविष्यति स कालो यत्र दुर्लभो गीतार्थ: आलोचनाईस्तत एण्यन्तं कालमधिकृत्य दुर्लभं गीतार्थ गीतार्थ वाश्रित्य तथा जङ्घाबल-परिहान्यारोगातंकेण (न) वा जातोऽपराक्रम आलोचकस्ततस्तं वा प्रतीत्य सूत्रमिदमधिकृतं प्रवृत्तं यावदिशादि सूत्रम् / अत्र पर आह-ननु पूर्वमेकाकिविहारप्रतिमासूत्राणि व्याख्यातानि यथा एकाकिविहारे दोषाः, तदनन्तरं पार्श्वस्थादि विहारोऽपि प्रतिषिद्धः। ततो नियमाद्च्छे वस्तव्यमिति नियमितं / एवं च नियमिते कथमेकाकी जातो येनोच्यते नैवात्मनमाचार्योपाध्यायान् पश्येत्तत्रैव गत्वा तेषामन्तिके आलोचयेदित्यत्र सूरिराहसुत्तमिणं कारणियं पायरियादीण जत्थ गच्छंमि / पंचण्हं ही असती एगो च तहिं न वसियव्वं // सूत्रमिदमधिकृतं कारणिक, कारणे भवं कारणिकं कारणे सत्येकाकिविहारविषयमित्यर्थः / इयमत्र भावना-बहूनि खन्वशिवादीनि एकाकित्वकारणानि ततः कारणवशतो यो जात एकाकी तद्विषयमिदं सूत्रमिति न कश्चिद्दोषः अशिवादीनि तु कारणानि मुक्त्वा प्राचार्यादिविरहितस्य न वर्तते वस्तुं / तथा चाह-यत्र गच्छे पश्चानामा!यापाध्यायगणावच्छेदि प्रवर्तिस्थविररूपाणामसदभावो यदि वा यत्र पश्चानामन्यतमोऽप्येको न विद्यते तत्र न वस्तव्यमनेकदोषसम्भवात् / तानेव दोषानाह-. एवं असुभगिलाणे परिपकुलकजमादिवग्गो उ / अस्मस्सतिससल्लस्सा जीवियघाते चरणघातो // एवमुक्तेन प्रकारेण एकादिहीने गच्छे एकोऽशुभकार्ये मृतकस्थापनादौ अपरोग्लानप्रयोजनेप्वन्यः परित्रायां कृतभक्त For Private and Personal Use Only

Page Navigation
1 ... 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276