Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्त्रियो बलवत्य ' इति / तत आहइत्थीतो बलवंतत्थ गामेसुय नगरेसुय, अणस्सा जत्थहेसंति, अपव्वंमिय मुंडणं॥ तत्र तेषु ग्रामेषु नगरेषु वा स्त्रियो वलवत्यो यत्र अनश्वा हेषंति, अपर्वणिच शिरोमुंडनं, एतेन राज्ञो हय हेषितं प्रकटीकृतं पुरोधसश्चशिरो मुंडनं, अथ कथमेतदमात्येन ज्ञातमित्यत आह // सूयग तहाणु सूयग पडिसूयग सव्वसूयगा चेव / पुरिसा कयवित्तीया वसंति सामंतरज्जेसु // तस्यामात्यस्य पुरुषाः कृतवृत्तयः कृताजीविका श्चतसृषु दिक्षु चारज्ञानार्थ सामन्तराज्येषु प्रातिवेशकराज्येषु वसन्ति / तद्यथा-सूचका अनुसूचकाः प्रतिसूचकाः सर्वसूचकाश्च / तत्र सूचकाः सामन्तराज्येषु गत्वा अन्तःपुरपालकैः सह मैत्री कृत्वा यत्तत्र रहस्यं तत्सर्व जानन्ति / अनुसूचका नगराभ्यन्तरे चारमुपलभन्ते, प्रति सूचकानगरद्वारसमीपे अन्पव्यापारा अवतिष्ठति, सर्वसूचका स्वनगरं पुनरागच्छन्ति पुनयोन्ति तत्र ये सूचकास्तैः श्रुतं दृष्टं वा सर्वमनुसूचकेभ्यः कथयन्ति अनुसूचकाः सूचक कथितं स्वयमुपलब्धं च प्रतिसूचकेम्यः प्रतिसूचकाः अनुसूचककथितं स्वयमुपलब्धं च सर्वसूचकेभ्यः। सर्वसूचका अमात्याय कथयन्ति / यथा तस्यामात्यस्य चतुर्विधाः पुरुषाः सामन्तराज्येषु वसन्ति तथा महेला अपि। तथा चाहसूयग तहाणुसूयग पडिसयग सव्वसूयगा चेव / महिलाकयवित्तीया वसंति सामंतरजेसु // अस्य व्याख्या प्राग्वत् / यथा च पुरुषाः खियश्च सामन्तराज्येषु समस्तेषु वसन्ति तथा सामन्तनगरेष्वपि राजधानी For Private and Personal Use Only

Page Navigation
1 ... 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276