Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सारूपिको वक्ष्यमाणस्वरूपः / तस्याप्यभावे यत्रैव सम्यग् भावितानि जिनवचनवासितान्तःकरणानि दैवतानि पश्यति / तत्र गत्वा तेषामन्तिके आलोचयेत् / तेषामप्य भावे बहिनामस्य ग्रसति बुद्ध्यादीन गुणान् यदि वा गम्यः शास्त्रप्रसिद्धानामष्टादशानां कराणामिति ग्रामस्तस्य यावत्करणात् / “नगरस्य वा निगमस्स वा रायहाणीए वा खेडस्स वा कप्पडस्यवा पट्टणस्स वा दोसमुहस्स वा आसमस्स वा संवाहस्सवा सन्निवेसस्स वा इति परिग्रहः" // तत्र न विद्यते करो यस्मिन् तत् नकरं तस्य, निगमः प्रभूततर वणिग्वर्गावासस्तस्य वा राजाधिष्ठान नगरं राजधानी तस्य वा पाशुप्राकार निबद्धं खेटं तस्य वा क्षुल्लकप्रकारवेष्टितं कटं तस्य वा, अर्धतृतीयगव्यूतान्त मान्तररहितं मडम्ब तस्य वा, पत्तनं जलस्थलनिर्गमप्रवेशं यथा भृगुकच्छ / उक्तं च "पत्तनं शकटैगम्यं, घोटकैनौभिरेव च / नौभिरेवयद्गम्यं, पट्टनं तत्य क्षते // " तस्य वा द्रोणमुखं जलनिर्गमप्रवेशं / यथा-' कोकणदेशेस्थानकनामकं पुरं तस्य च, आकरो हिरण्याकरादिः | आश्रमस्तापसावसथोपलचित आश्रयविशेषः तस्य वा संबाधो यात्रासमागतप्रभूतजननिवेशस्तस्य वा, संनिवेशस्तथा विधप्राकृतलोकनिवासस्तस्य वा प्राचीनाभिमुखो वा उदीचीनाभिमुखो वा पूर्वदिगभिमुख उत्तरदिगभिमुखो वा इत्यर्थः, / इह चिरन्तनव्याकरणेषु दिश्यपिस्त्रियामभिधेयायामीनप्रत्ययः स्वार्थे भवति, तत एवं निर्देशः पूर्वोत्तरादिग्रहणमालोचनायामेतयोरेव दिशयोरहेत्वात् करतलाम्यां प्रकर्षण गृहीतः करतलप्रगृहीतः तं तथा शिरस्यावर्तो यस्य स शिरस्यावतः कण्ठे कालवद लुक् समासः तं मस्तके अञ्जलिं कृत्वा एवं वक्ष्यमाणरीत्या वदेव / तामेव रीतिं दर्शयति एतावन्तो मे ममापरापा एतावत् कृत्वा एतावतो वारान् यावदहमपराद्ध एवमर्हता तीर्थकृतां कथं भूतानामित्याह-सिद्धानामपगतमलकलकानाम 22 For Private and Personal Use Only

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276