Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 258
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तत्थ न कप्पइ वासो आहारा जत्थ नत्थि पंच इमे / राया वेजो धणिमं नेवइया रूवजक्खाय // तत्र मम न कल्पते वासो यत्रेमे वक्ष्यमाणाः पञ्च नाधाराः / के ते इत्याह-राजा नृपतिवैद्यो भिषक् , अन्ये च धनवन्तो नैतिकका नीतिकारिणो रूपयक्षा धर्मपाठकाः / कस्मादिति चेदत आह-- दविणस्स जीवयस्स य वाघातो होज जत्थ नत्थेते / वाघाए वेगतरस्स दव्वसंघाडणा अफला // यत्र न सन्त्येते राजादयः परिपूर्णाः पञ्च तत्र नियमतो द्रविणस्य धनस्य जीवितस्य वा व्याघातो भवेत् / वेबैन विना जीवितस्य, राजादिभिर्विना धनस्यव्याघाते चैकतरस्य धनस्य जीवितस्य वा द्रव्यसङ्घाटना द्रव्योपार्जना विफला परिभोगस्या सम्भवादथवा-- रमा जुवरमा वा महयरय अमच्च तह कुमारेहिं / एएहिं परिग्गहियं, वसेज रजं गुणविसालं // राजा युवराजेन महत्तरकेनामात्येन तथा कुमारैरेतैः पञ्चभिः परिगृहीतं राज्यं गुणविशालं भवति / गुणविशालत्वाच्च तद्वसेत् / तत्र कीदृशो राजेति राजलक्षणमाह उभतो जोणीसुद्धो राया दसभागमेत्त संतुट्ठो। लोए वेदे समए कयागमो धम्मितो राया / / यो राजा उभययोनिशुद्धः मातृपितृपक्षपरिशुद्धः / तथा प्रजाम्यो दश (म) भागमात्रग्रहणसन्तुष्टः। तथा लोके लोकाचारे वेदे समस्तदर्शनिनां सिद्धान्ते समये नीतिशास्त्रे कृतागमः कृतपरिज्ञानो धार्मिको धर्मश्रद्धावान् स राजा, शेषस्तु For Private and Personal Use Only

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276