Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव- तृतीयो हारसूत्रस्य विभागः। पीठिकानंतर। // 126 // लोचनामन्तरेण नेत्यालोचना प्रतिपाद्यते इत्यनेन सम्बन्धेनायातस्यास्य व्याख्या / भिक्षुरन्यतरत अकृत्यस्थानं सेवित्वा प्रतिसेव्य इच्छेत् आलोचयितुं / स चा लोचयितुमिच्छुर्यत्रैवात्मन आचार्योपाध्यायान् पश्येत्तत्रैव गत्वा तेषामन्ति के समीपे आलोचयेदतीचारजातं वचसा प्रकटी कुर्यात् प्रतिक्रामेत् मिथ्यादुष्कृतं तद्विषये दद्याद्यावत्कारणात् “निन्दिजा गरिहिन्जा विउद्देजा विसोहिज्जा अकरणयाए अब्भुटेजा / अहारिहं तवो कम्मं पायच्छित्तं पडिवजेजा'। इति परिग्रहः / तत्र निंद्यादात्मसाक्षिकं / जुगुप्सेत् गर्हेत् गुरुसाक्षिकम् / इह निन्दनगर्हणमपि तात्विकं तदा भवति यदा तत्करणतः प्रतिनिवर्त्तते / तत आह-विउद्देजा इति तस्मादकृत्य प्रतिसेवनात् व्यावर्तेत निवृत्तेत, व्यावृतावपि कृतात्पापात्तदा मुच्यते, यथात्मनो विशोधिर्भवति, तत आह आत्मानं विशोधयेत् , पापमलस्फेटनतो निर्मली कुर्यात् / सा च विशुद्धिरपुनः करणतायामुपसंपद्यते / ततस्तामेवा पुनः करणतामाह / अकरणतया पुनरभ्युत्तिष्ठेत् / पुनरकरणतया अभ्युत्थानेऽपि विशोधिप्रायश्चित्तप्रतिपत्या भवति / तत आह-यथार्ह यथायोग्यं तपःकर्म तपोग्रहणमुपलक्षणं च्छेदादिकं प्रायश्चित्तं प्रतिपद्यते / यदि पुनरात्मीयेष्वाचार्योपाध्यायेषु सत्सु अन्येपामन्तिके आलोचयति / ततः प्रायश्रित्तं तस्य चतुर्गुरु यदि पुनरात्मन आचार्योपाध्यायान पश्येत् / अभावाद्दरव्यवधानतो वा ततो यत्रैव सांभोगिक साधर्मिक विशिष्टसामाचारीनिष्पन्न बहु श्रुतं च्छेदग्रन्थादिकुशलं उद्धामकमुद्यतविहारिणं पाठान्तरं बह्वागममर्थतः प्रभूतागमं पश्येत्तस्यान्तिके आलोचयेदत्रापि यावत्करणात् पडिक्कमेजा इत्यादि पदकदम्बकपरिग्रहः / यदि पुनः तस्य भावे अन्यस्य सकाशे आलोचयति तदा चतुर्लघु एवं सर्वत्रोत्क्रमकरणे वक्तव्यम् / सांभोगिकसाधर्मिकबहुश्रुताभावे असांभोगिक साधर्मिक बहुश्रुत संविग्नस्यान्तिके तस्याप्यभावे सारूपिकस्यवहुश्रुतस्यान्तिके समान रूपं सरूपं तत्र भवः // 126 // For Private and Personal Use Only

Page Navigation
1 ... 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276