Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मौनेन वाक्संयमलक्षणेन क्रियां करोति, मौनव्रतित्वमलम्बते इत्यर्थः / यच विशिष्टसम्प्रदायाद्गृहीतुं कुकुटविद्यादिना दंभ प्रयोगलक्षणं उभयतोऽपि उभयेषामपि साधुचर्यायांस्तेषां च लिङ्गिनामविरुद्धं तत्करोति, / तथा समुदानासंभवे तेषामाश्रयेषु गतस्य सतस्तेषां प्रत्ययहेतोः प्रत्ययोत्पादनार्थ बुद्धप्रतिमानां स्तूपानां वा प्रणामे करणीयतयोपस्थिते जिनप्रतिमा मनसि करोति / किमुक्तं भवति ? जिनप्रतिमा मनसि कृत्य तेषां प्रणामं करोति // भावेति पिंडवातित्तणेण घेत्तुं च दवइ अपत्ते / कंदादि पुग्गलाण य आकारगं एयपडिसेहो // तथा आत्मानं जनेभ्यः पिण्डपातित्वेन भावयति, ततो भिक्षा परिभ्रमणेन जीवति अथावमौदर्यदोषतः परिपूर्णो न भवति, ततो दानशालायां भिक्षुकादिभिः सह पतथा समुपविशति / ततः परिपाट्या परिवेषणे जाते सति-अपत्ते इति अत्र प्राकृतत्वात् यकारलोपः / अयंपात्रे तद्गृहीत्वा अन्यत्र विविक्ते प्रदेशे समुद्दिशति / अथान्यत्र गत्वा समुद्देशकरणे तेषां काचित् शङ्का संभाव्यते / ततो भिक्षुकादिभिः एव सह पङ्कथोपविष्टः सन् समुद्दिशति / तत्र यदि सचित्तं कन्दादिपुद्गलं वा मांसापरपर्यायं परिवेषकः परिवेषयति / तदा ममेदमकारक वैद्येन प्रतिषिद्धमिति वदता तेषां कन्दादीनां पुद्गलस्य च प्रतिषेधः कर्तव्यः / अत्रैव पुद्गल विषयेपवादमीहबितियपयं तु गिलाणो निख्खिव चंकमणादि कुणमाणो। लोयं वा कुणमाणो कितिकम्मंवा सरीरादी // द्वितीयपदमपवादपदं यदि भाण्डमात्रोपकरणानां निक्षेपमुपलक्षणमेतत् / आदानं प्रत्युपेक्षणादिकं च कुर्वन् तथा चक्र For Private and Personal Use Only

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276