________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा यदि वा कालातिक्रमेण प्रत्युपेक्षन्त इति, स्वाध्यायमपि मूलत एव न कुर्वन्ति यदि वा अप्रस्थापिते कुर्वन्ति, अथवा हीनमधिकं वा कालिकं कालतः कुर्वन्ति यदि वा कालिकवेलायामुत्कालिकमुत्कालिकवेलायां कालिकमिति / संप्रत्यावश्यकादिद्वारत्रितयमाहन करेंती श्रावस्सं हीणाहियनिविठ्ठपाउयनिसन्ना / दंडगहणादिविणयं राइणियादीण न करेंति // आवश्यकं मूलत एव न कुर्वन्ति, यदि वा हीनं अधिकं वा कायोत्सर्गाणां हीनहीनकरणतोऽधिकं वाऽनुप्रेक्षार्थ कायोत्सर्गाणामेव चिरकालकरणतः कुर्वन्ति / यदि वा निषमा उपविष्टाः प्रावृताः शीतादिभयतः कल्पादिप्रावरणप्रावृता निषबास्त्वग्वर्तनेन निपतिताःप्रकुर्वन्ति / गतमावश्यकद्वारम् / दण्ड गहणादित्ति दण्डग्रहादौ दण्डग्रहणं भाण्डमात्रकादीनामुपलक्षणं दण्डकादीनां ग्रहादौ ग्रहणे निक्षेपे च न प्रत्युपेक्षणं, नापि प्रमार्जनं दुःप्रत्युपेक्षितादि वा कुर्वन्ति / गतं दण्डद्वारम्। विनयद्वारमाह-विनयं रत्नाधिकादीनामाचार्यादीनां यथा रत्नाधिकं न कुर्वन्ति गतं विनयद्वारम् / राजादिद्वारकदम्बकमाह रायं इत्थि तह अस्समादि वंतररहेय पेहेंति / तह नक्खवीणियादी कंदप्पादी व कुव्वंति // राजानं निर्गच्छन्तं वा स्त्रियं सुरूपामिति विशिष्टाभरणालङ्कतामागच्छन्ती वा तथा तिरिक्ख इत्यस्य व्याख्यानम् अश्वा-- दिकम् अश्वं वा हस्तिनं वा राजवाहनमतिप्रभूतगुणाकीर्ण, व्यंतर रथान्वा विभूत्याविपणिमार्गेषु गच्छतः प्रत्यागच्छतो वा प्रेक्षते, / एतेन राजस्वीतिर्यग्वानमन्तरद्वाराणि व्याख्यातानि / तथेत्यनुक्तसमुच्चयार्थः / स चेदमुक्तं समुच्चिनोति कालप्रत्युपेक्षणं न कुर्वन्ति; न वा कालं प्रतिजागरति / गतं प्रेक्षाद्वारं / तथा नखवीणिकादिकं नखैर्वीणावादनं आदिशब्दात् 11 For Private and Personal Use Only