Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 315
________________ उत्तराध्य यनसूत्रम् ॥३१३॥ १५ १८ २१ २४ तान्नन्तुं यान्ति तद्भक्ता, इत्यूचे सचिवस्ततः ॥ ९ ॥ तत्र यामो वयमपी-त्युक्ते राज्ञाऽथ सोऽब्रवीत् ॥ यद्येवं तर्हि तत्रेशैः, स्थेयं मध्यस्थवृत्तिभिः ॥ १० ॥ पाखण्डिनोऽखिलान्वादे, स्वामिन् ! जेष्यामि तानहम् ॥ ओमित्युक्त्वा ततो राजा, समंत्री तद्वनं ययौ ॥ ११ ॥ धर्मं चेद्वित्थ तद्ब्रूते-त्यूचे च नमुचिर्मुनीन् ॥ क्षुद्रोऽयमिति विज्ञाय, ते तु तूष्णीकतां दधुः ॥ १२ ॥ ततः स शासनं जैनं निन्दन्नुद्दिश्य सद्गुरून् ॥ गौरयं किमु वेत्तीति व्यब्रवीत्सचिब्रुवः ॥ १३ ॥ मुखं कण्डूयते ते चेत्, तत्किंचिद्ब्रूमहे वयम् ॥ अथेति गुरुभिः प्रोक्ते, तानेकः क्षुल्लको जगौ॥ १४ ॥ अनेन सह धृष्टेन वक्तुं युक्तं न वः स्वयम् ॥ विजेष्ये ह्यहमेवामुं, स्वपक्षं तद्वदत्वयम् ॥२५॥ क्रुद्धः सोऽथावदद्वेद- बाह्याः शौचविवर्जिताः ॥ देशे वासयितुं नार्हा, यूयं पक्षोऽयमस्तु मे ॥ १६ ॥ प्रत्यूचे क्षुल्लको वारि, कुम्भल्ली प्रमार्जनी ॥ कण्डणी पेषणीत्युक्ताः, पञ्च शूनाः श्रुतिष्वहो ! ॥ १७ ॥ ये हि शूना भजन्त्येता, वेदबाह्याः त एव हि । तद्वर्जितानामस्माकं तत्कथं वेदबाह्यता ? ॥१८॥ अशौचं तु रेतं तस्य सेवकश्चाशुचिर्मतः ॥ सुरताद्विरतास्तस्मात्कस्मादशुचयो वयम् ॥१९॥ निरुत्तरीकृत इति, क्षुल्लकेन स धीसखः ॥ वैरं महद्वहन् साधुष्वगाद् गेहं नृपान्वितः ॥ २० ॥ निशायां च मुनीन् हन्तुं क्रोधान्धः स वने गतः ॥ धावन्निहन्तुमस्तम्भि, देव्या निर्ग्रन्थभक्तया ॥२१॥ प्रातश्च तं तथा प्रेक्ष्य विस्मिता नागरा नराः ॥ नृपश्च धर्मं सूरिभ्यो, निशम्योपशमं ययुः १ प्राणिवधस्थानानि । "पञ्च शूना गृहस्थस्य, चूल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाहयन् ॥'' [ मनुः ] २ कामम् ॥ अष्टादशम ध्ययनम् (१८) महापद्म चक्रिकथा ९-२२ UTR-2 ॥३१३ ॥

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386