Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 337
________________ उत्तराध्ययनसूत्रम् ॥३३५॥ अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा ११-२५ व्यन्तरो विद्यु-न्मालिनामा महर्द्धिकः ॥११॥ स च हासाप्रहासाभ्यां, स्वदेवीभ्यां युतोऽन्यदा ॥ व्रजन् शक्राज्ञया | नन्दी-श्वरे प्राच्योष्ट वर्त्मनि ॥१२॥ ततश्चिन्तातुरे तस्य, कान्ते ते इति दध्यतुः ॥ प्रलोभयामः स्त्रीलोलं, कञ्चिद्यो नौ पतिर्भवेत् ॥१३॥ इति ताभ्यां भ्रमन्तीभ्यां, चम्पायां स सुवर्णकृत् ॥ ददृशेऽधिगृहं ताभि-ललनाभिः समं ललन् ॥१४॥ ततो योग्योऽयमस्माकं, नूनमित्यवधार्य ते ॥ तस्यादर्शयतां दिव्यं, स्वरूपं विश्वकार्मणम् ॥१५॥ मोहितस्सोऽथ ते देव्यौ, के युवामिति पृष्टवान् ? ॥ सविलासं विलासिन्यौ, ततस्ते इत्यवोचताम् ॥१६॥ आवां हासाप्रहासाढे, देव्यौ विद्धि महर्द्धिके ॥ चेन्नौ वाञ्छसि तत्पञ्च-शैलाख्यं द्वीपमापतेः ॥१७॥ उक्त्वेति विद्युल्लेखाव-द्राक् तिरोहितयोस्तयोः ॥ दिशं तामेव स प्रेक्षा-मास शून्यमनाश्चिरम् ॥१८॥ दध्यौ च योषितामासां पञ्चशत्याऽपि किं मम ॥ विश्वं शून्यमिवाभाति, दृशाविव विना हि ते ! ॥१९॥ तद्रूपं वीक्ष्य रत्नाभ-मासु काचमणीष्विव ॥ को नाम रमते तस्मात्तदर्थं प्रयते द्रुतम् ॥२०॥ ध्यात्वेति गत्वा भूपाल-कुले दत्वा धनं घनम् ॥ डिण्डिमं वादयनुच्चैः, पुर्यामेवमघोषयत् ॥२१॥ कुमारनन्दिनं पञ्च-शैले नयति यो द्रुतम् ॥ तस्मै नाविकवर्याय, द्रव्यकोटि ददाति सः ॥२२॥ तत्प्रपद्य मुदा कोऽपि, जरी जीवितनि:स्पृहः ॥ विधाप्य पोतं पाथेय-पाथोमुख्यैरपूरयत् ॥२३॥ निजानामङ्गजानां च, वित्तकोटिं वितीर्य ताम् ॥ कुमारनन्दिना साक-मारोहद्वहनं स तत् ॥२४॥ दिनैः कियद्भिस्तस्मिंश्च, पोते दूरं गतेऽम्बुधौ ॥ पुरः पश्यसि कि किञ्चि-दित्यूचे नन्दिनं जरी ॥२५॥ श्यामं किमपि UTR-2 ॥३३५॥

Loading...

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386