Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 347
________________ उत्तराध्ययनसूत्रम् ॥३४५॥ १५ अष्टादशमध्ययनम् शान्तिनाथचरित्रम् १५१-१६४ प्रद्योतश्चण्डतां गतः ॥ साधु दूत ! वियातोऽसि, मदग्रेऽपीत्थमात्थ यत् ! ॥१५१॥ अर्चाचेट्यौ रत्नभूते, हरतः का त्रपा मम ? ॥ कार्यं यथा तथा रत्न-मात्मसादिति न श्रुतम् ? ॥१५२॥ न दास्ये प्रतिमां चेमां, न हि दातुमिहानयम् ॥ प्रतिमाशेषतां गन्ता, जिघृक्षुः प्रतिमां स तु ! ॥१५३॥ तन्माऽऽयासीद्वायासी, जेता मां नागतोऽपि सः ॥ दन्ताबलो बलिष्ठोऽपि, नाचलं चलयत्यहो! ॥१५४॥ वाक्यं तस्येति दूतोऽपि, गत्वा राज्ञे न्यवेद-K यत् ॥ तन्निशम्य नृपोऽप्युच्चै-र्यात्रानेकमवीवदत् ॥१५५॥ ससैन्यैर्बद्धमुकुटै-र्दशभिः सह राजभिः ॥ प्रत्यवन्ति प्रतस्थेऽथ, ज्येष्ठमासि स पार्थिवः ॥१५६॥ सैन्यैर्भुवं तदुख़्तै, रजोभिश्च दिशोऽखिलाः ॥ छादयन्मरुदेशो/-मम्बुदुःस्थां क्रमादगात् ॥१५७॥ तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम् ॥ आसन्नमृत्युवदभू-नष्टवाग् मीलितेक्षणम् ॥१५८॥ ततः प्रभावतीदेव-मुदायननृपोऽस्मरत् ॥ आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम् ॥१५९॥ पुष्कलैः पुष्करावर्तपुष्करोपमपुष्करैः ॥ पूर्णानि विदधे त्रीणि, पुष्कराणि स निर्जरः ॥१६०॥ शीतलं सलिलं तेषु, पीत्वा स्वस्थमभूबलम् ॥ विनाऽन्नं जीव्यते जातु , न पुनर्जीवनं विना ॥१६१॥ सुरोऽथ भूपमापृछय, जगाम निजधाम सः ॥ क्रमादुज्जयिनीपुर्यामुदायननृपोऽप्यगात् ॥१६२॥ दूतेनाचीकथच्चैवं, कृपालुालवाधिपम् ॥ किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमावयोः! ॥१६३॥ रथी सादी निषादी वा, पदातिर्वा यथा भवान् ॥ युयुत्सते तथा वक्तु, यथाऽऽगच्छाम्यहं तथा ॥१६४॥ UTR-2 ॥३४५॥ १ निर्लज्जः ॥२ मरणतां गमिष्यतीत्यर्थः।। ३ वृथाप्रयासी ॥ ४ गजः।। ५ यात्रापटहम् ।।

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386