Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 380
________________ उत्तराध्ययनसूत्रम् ॥३७८॥ एकोनविंश मध्ययनम् गा ८२-८४ मूलम्--एवं समुट्ठिते भिक्खू , एवमेव अणेगगो । मिगचारिअं चरित्ता णं, उड़े पक्कमई दिसि ॥८२॥ व्याख्या--एवं मृगवत्समुत्थितः संयमानुष्ठानम्प्रत्युद्यतस्तथाविधातकोत्पत्तावपि न चिकित्साभिमुख इति भावः, एवमेव मृगवदेवानेकगो यथाऽसौ वृक्षतले नैकस्मिन्नेवास्ते, किन्तु कदाचित् क्वचिदेवं मुनिरप्यनियतस्थानतया, स चैवं मृगचर्यां निष्प्रतिकर्मत्वादिरूपां चरित्वाऽऽसेव्य अपगताशेषकर्माश ऊर्ध्वं प्रक्रामति गच्छति दिशं, सर्वोपरिस्थानस्थो भवतीति भावः ॥४२॥ मृगचर्यामेव स्पष्टयति-- मूलम्--जहा मिए एग अणेगचारी, अणेगवासे धवगोअरे अ । एवं मुणी गोअरिअं पविटे, नो हीलए नोवि अ खिंसइज्जा ॥८३॥ ___ व्याख्या--यथा मृग एकोऽद्वितीयोऽनेकचारी अनियतचारी, नैकत्रैव वासोऽवस्थानमस्येत्यनेकवासो ध्रुवगोचरच, सदा गोचरलब्धमेवाहारयतीति । एवं मृगवदेकत्वादिविशेषणविशिष्टो मुनिर्गोचर्यां प्रविष्टो नो हीलयेदवजानीयात्कदन्नादीति गम्यं, नापि च 'खिसएज्जत्ति' निन्देदाहाराप्राप्तौ स्वं परं चेति सूत्राष्टकार्थः ॥४३॥ एवं मृगचर्यास्वरूपं निरूप्य यत्तेनोक्तं यच्च पितृभ्यां यच्चायं चक्रे तदाहमूलम्--मिगचारिअं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिईहिंऽणुण्णाओ, जहाइ उवहिं तओ ॥८४॥ UTR-2 ॥३७८॥

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386