Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 351
________________ उत्तराध्ययनसूत्रम् ॥३४९॥ अष्टादशमध्ययनम् (१८) उदायनरा जर्षिकथा २०९-२२१ मन्दधीः! ॥२०८॥ ततः कयाचिदाभीर्या, स भूपः सविषं दधि ॥ तस्मै दापितवांस्तस्मा-द्विषं चापाहरत्सुरी ॥२०९॥ विषमिश्रदधिप्राप्ति-स्तव तन्मा ग्रहीस्ततः ॥ इत्यूचे च मुनिं देवी, ततः सोऽपि तदत्यजत् ! ॥२१०॥ विना दधि व्याधिवृद्धौ, भूयः साधुस्तदाददे ॥ तद्विषं च सुरी प्राग्व-ज्जहार व्याजहार च ॥२११॥ तृतीयवारमप्येवं, देवताऽपाहरद्विषम् ॥ तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतश्च सा ॥२१२॥ अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः ॥ बुभुजे दधि भाव्यं हि, भवत्येव यथातथा! ॥२१३॥ ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषाशिनम् ॥ चकारानशनं साधुः, समतारससागरः! ॥२१४॥ त्रिंशदिनान्यनशनं, पालयित्वा समाहितः ॥ केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ॥२१५॥ तस्मिन्मुक्तिं गते तत्रा-ऽऽगता सा देवता पुनः ॥ ज्ञात्वा तथा मुनेरन्त-मन्तः कोपं दधौ भृशम् ॥२१६॥ साऽथ वीतभये पांशु - वृष्टिं रुष्टा व्यधात्तथा ॥ यथा जज्ञे पुरस्थाने, स्थलं विपुलमुच्चकैः ! ॥२१७॥ शय्यातरं मुनेस्तस्य, कुम्भकारं निरागसम् ॥ सा सुरी सिनपल्यां प्राग्, निन्ये हृत्वा ततः पुरात् ॥२१८॥ तस्य नाम्ना कुम्भकार -कृतमित्याह्वयं पुरम् ॥ तत्र सा विदधे किं वा, दिव्यशक्तेर्न गोचरः ? ॥२१९॥ इतश्च केशिनं राज्ये, यदा न्यास्थदुदायनः ॥ तदा तत्तनयोऽभीचि-रिति दूनो व्यचिन्तयत् ॥२२०॥ प्रभावतीकुक्षिभवे, सनये भक्तिमत्यपि ॥ सुते मयि सति क्षमापो, राज्यं यत्केशिने ददौ ॥२२१॥ न हि चक्रे विवेकाऽर्ह, UTR-2 ||३४९॥

Loading...

Page Navigation
1 ... 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386