Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 363
________________ उत्तराध्य यनसूत्रम् ॥३६१॥ १५ र्णव इव महार्णवः संसारस्तस्मात् यतश्चैवमतोऽनुजानीत मा, प्रव्रजिष्यामि सकलदुःखापनोदाय व्रतं ग्रहीष्यामि, 'अम्मोत्ति' मातुरामंत्रणम् ॥१०॥ अथ कदाचित्पितरौ भोगैर्निमंत्रयत इति तन्निषेधार्थमाह मूलम् अम्मताय ! मए भोगा, भुत्ता विसफलोवमा । पच्छा कडुअविवागा, अणुबंधदुहावहा ! ॥ ११ ॥ व्याख्या- 'विसफलोवमत्ति विषमिति विषवृक्षस्तत्फलोपमाः तदुपमत्वं भावयति पश्चात् परिभोगानन्तरं कटुकविपाकाः, अनुबन्धदुःखावहा निरन्तरदुःखदायिनः ॥ ११ ॥ किञ्च - मूलम् इमं सरीरं अणिच्चं, असुइ असुइसंभवं । असासयावासमिणं, दुक्खकेसाण भायणं ! ॥१२॥ व्याख्या -' असुइत्ति' अशुचि स्वभावादेवापावनं, अशुचिभ्यां शुक्रशोणिताभ्यां सम्भवमुत्पन्नं अशुचिसंभवं, अशाश्वत आवासः प्रक्रमाज्जीवस्यावस्थानं, यस्मिंस्तत्तथा 'इणंति' इदं दुःखहेतवः क्लेशा दुःखक्लेशा ज्वरादयो रोग भाजनम् ॥ १२ ॥ यतश्चैवमतः मूलम्-असासए सरीरंमि, रई नोवलभामहं । पच्छा पुरा य चइअव्वे, फेणबुब्बुअसन्निभे ! ॥१३॥ व्याख्या अशाश्वते शरीरे रतिं नोपलभेऽहं पश्चाद्भुक्तभोगावस्थायां, पुरा वा अभुक्तभोगतायां त्यक्तव्ये । अनेन च कस्यामप्यवस्थायां मृत्योरनागमो नास्ति इति सूचितं, अत एव फेनबुद्बुदसन्निभे ॥ १३ ॥ एकोनविंशमध्ययनम् (१९) गा११-१३ UTR-2 ॥३६१ ॥

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386