Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 374
________________ उत्तराध्ययनसूत्रम् ॥३७२॥ एकोनविंश मध्ययनम् गा ५८-६१ व्याख्या--हुताशने ज्वलति क्वेत्याह- चितासु परमाधार्मिकरचितासु महिष इव दग्धो भस्मसात्कृतः, पक्वो भडित्रीकृतः, अवशः पापकर्मभिः 'पाविओत्ति' प्राप्तो व्याप्तः, प्रापितो वा नरकम् ॥५७॥ मूलम्-- बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंकगिद्धेहिऽणंतसो ॥५८॥ व्याख्या--बलात् हठात् सन्दंशाकाराणि तुण्डानि येषां ते सन्दंशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिर्द्धङ्कगृधैरिति | योगः, एते च वैक्रिया एव तत्र तिरश्चामभावात् । विलुप्तो विविधं छिन्नो विलपन्नहमिति ॥५८॥ मूलम्--तण्हा किलंतो धावंतो, पत्तो वेअरणिं नई । जलं पाहंति चितंतो, खरधाराहिं विवाइओ ॥५९॥ व्याख्या--'विवाइओत्ति' व्यापादितः ॥५९॥ मूलम्--उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहि, छिन्नपुव्वो अणेगसो ॥६०॥ व्याख्या--उष्णेन वज्रवालुकादितापेनाभितप्तः सम्प्राप्तोऽसयः खड्गास्तद्वद्भेदकानि पत्राणि यत्र तदसिपत्रम् ॥६०॥ | मूलम्--मुग्गरेहिं मुसंढीहिं, सूलेहिं मुसलेहि अ । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥६१॥ व्याख्या-- मुद्गरादिभिः शस्त्रविशेषैः गता नष्टा आशा परित्राणविषया यस्मिंस्तद् गताशं यथा स्यादेवं 'भग्गगत्तेहिंति' भग्नगात्रेण सता मयेति शेषः ॥६१॥ UTR-2 ॥७२॥

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386