Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 355
________________ उत्तराध्य यनसूत्रम् ॥३५३ ॥ १८ कायेऽस्मिन् किं सुखं नृणाम् ? ॥२२॥ किञ्च सत्यङ्गसामर्थ्ये, व्रतं युक्तं न वार्द्धके ॥ वार्द्धके ह्यक्षमतनोः, स्याद्विनाऽपि मनो व्रतम् ! ॥२३॥ प्रभावत्यभ्यधादाभिः समग्रगुणधामभिः ॥ भोगान्सहाष्टभिः स्त्रीभिर्भुक्ष्व किं साम्प्रतं व्रतम् ? ॥२४॥ महाबलोऽब्रवीत्क्लेश-साध्यैर्बालिशसेवितैः ॥ दुःखानुबन्धिभिर्भोगैः, किं मे विषफलोपमैः ? ॥ २५ ॥ किञ्च मोक्षप्रदं मर्त्य - जन्मभोगकृते कृती ॥ वराटिकाकृते रत्न-मिव को हारयत्यहो ! ||२६|| अम्बाऽवादीदिदं जात!, दव्यजातं क्रमागतम् ॥ स्वैरं विलस पुण्यदोः फलं ह्येतदुपस्थितम् ! ॥ २७ ॥ अभ्यधाद्धूपभूर्मात गत्रिचोराग्निराजसात् ॥ क्षणाद्भवति यद्वत्तं प्रलोभयसि तेन किम् ? ॥२८॥ किञ्च प्रेत्य सहाऽऽयाति, यो धर्मोऽनन्तशर्मदः ॥ धनं तद्विपरीतं तत्समतामनुवीत किम् ? ॥२९॥ राज्ञी जगौ वह्निशिखा - पानवदुष्करं व्रतम् ॥ कुमार ! सुकुमारस्त्वं कथङ्कारं करिष्यसि ? ॥३०॥ उवाच नृपभूः स्मित्वा, मातः ! किमिदमुच्यते ? ॥ नराणां कातराणां हि व्रतं भवति दुष्करम् ! ॥ ३१ ॥ पालयन्ति प्रतिज्ञां स्वां, वीराः प्राणव्ययेऽपि ये ॥ परलोकार्थिनां तेषां न हि तदुष्करं परम् ! ॥३२॥ विहाय मोहं तत्पूज्या व्रताय विसृजन्तु माम् ॥ परोऽपि प्रेर्यते धर्म-चिकीः किं पुनरात्मजः ? ॥३३॥ तं तत्त्वविज्ञं वैराग्या- त्प्रकम्पयितुमक्षमौ ॥ व्रतार्थमन्वमन्येतां कथंचित्पितरौ ततः ॥३४॥ सोऽथ मूर्द्धाभिषिक्तेना - ऽभिषिक्तस्तीर्थवारिभिः ॥ ज्योत्स्नासधर्मभिर्लिप्त गात्रः श्रीचन्दनद्रवैः ||३५|| अदूष्ये देव UTR-2 अष्टादशम ध्ययनम् ( १८ ) महाबलरा जर्षिकथ २३-३५ ॥३५३॥

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386