Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 356
________________ उत्तराध्ययनसूत्रम् ॥३५४॥ अष्टादशम ध्ययनम् महाबलराजर्षिकथा ३६-४७ दूष्ये द्वे, हयलालोपमे दधत्. ॥ आपादादाशिरोन्यस्तै, राजन्माणिक्यमण्डनैः ॥३६॥ विस्मेरपुण्डरीकाभ-पुण्डरीकेण राजितः ॥ वेल्लकल्लोललोलाभ्यां, चामराभ्यां च वीजितः ॥३७॥ सहस्रेण नृणां वाह्या-मारूढः शिबिका शुभाम् ॥ चतुरङ्गबलाढ्येना-ऽनुयातो बलभूभुजा ॥३८ ॥ भेरीप्रभृतितूर्याणां, नादैगर्जानुकारिभिः ॥ अकाण्डताण्डवारम्भं, जनयन्केलिकेकिनाम् ॥३९॥ हित्वा रमामिमां दीक्षा-मादत्ते यौवनेऽपि यः ॥ सोऽयं कृतार्थ इत्युच्चैः,X स्तूयमानोऽखिलैर्जनैः ॥४०॥ ददानो दानमर्थिभ्य-चिन्तामणिरिवेहितम् ॥ प्राप पावितमाचार्यैः, पुरान्निर्गत्य तद्वनम् ॥४१॥ [ सप्तभिः कुलकम् ] याप्ययानादथोत्तीर्णं, पुरस्कृत्य महाबलम् ॥ गत्वान्तिके गुरोस्तस्य, पितरावित्यवोचताम् ॥४२॥ प्रियः पुत्रोऽयमस्माकं, विरक्तो युष्मदन्तिके ॥ दीक्षां गृह्णाति तच्छिष्य-भिक्षां वो दद्महे वयम् ! ॥४३॥ ओमित्युक्तेऽथ गुरुभि-रेशानी दिशमाश्रितः ॥ सर्वान्मुमोचालङ्कारा-विकारानिव भूपभूः! ॥४४॥ छिनमुक्तावलिमुक्ता-कल्पान्यश्रूणि मुञ्चती ॥ गृह्णती तानलङ्कारां-स्तदेत्यूचे प्रभावती ॥४५॥ जात! त्वं जातुचिन्माभू-धर्मकृत्ये प्रमद्वरः ॥ आराधयेर्गुरुवचः, सन्मंत्रमिव सर्वदा! ॥४६॥ अथ नत्वा गुरून् राज्ञि, राज्ञीयुक्ते ततो गते ॥ लोचं चकार भूपाल-नन्दनः पञ्चमुष्टिकम् ॥४७॥ धर्मघोषगुरून् भक्त्या, नत्वा चेति व्यजिज्ञपत् ॥ UTR-2 ॥३५४॥ १ हयलालामद् दधत् । इति 'घ' संज्ञकपुस्तके । हयलाला अश्वफेनः॥२ श्वेतच्छत्रेण ॥ ३ स्वयं केशानुदखनत् , कुमारः पञ्च- मुष्टिभिः ।। इति 'घ' पुस्तके पाठः ॥

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386