Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 354
________________ उत्तराध्ययनसूत्रम् ॥३५२॥ अष्टादशम ध्ययनम् महाबलराजर्षिकथा वधूवराणां तेषां च, यौतकं तद्ददौ नृपः ॥ वंश्यादासप्तमात्कामं, दातुं भोक्तुं च यद्भवेत् ॥८॥ ताभिः सद्गुणकान्ताभिः, कान्ताभिः सममष्टभिः ॥ कामभोगान्यथाकामं सोऽभुक्त सततं ततः ॥९॥ साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमलाहतः ॥ आचार्यों धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ॥१०॥ तं च श्रुत्वाऽऽगतं तुष्ट-मनाः श्रीमान्महाबलः ॥ | गत्वा प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ॥११॥ ततोऽवाप्तः स वैराग्यं, मन्दभाग्यैः सुदुर्लभम् ॥ श्रीधर्मघोषसूरीन्द्र, प्रणम्येति व्यजिज्ञपत् ॥१२॥ धर्मोऽसौ रोचते मां, जीवातुरिव रोगिणे ॥ तत्पृष्टवा पितरौ याव-दायामि व्रतहेतवे ॥१३॥ तावत्पूज्यैरिह स्थेयं, मयि बाले कृपालुभिः ॥ सूरिरूचे युक्तमेत-त्प्रतिबन्धं तु मा कृथाः! ॥१४॥ [ युग्मम् ] सोऽथ गत्वा गृहं नत्वा, पितरावित्यवोचत ॥ धर्मघोषगुरोधर्म, श्रुत्वाऽवापमहं मुदम् ॥१५॥ तत्पूज्यानुज्ञया, दीक्षा-मादित्सेऽहं तदन्तिके ॥ सम्प्राप्यापि प्रवहणं, मग्नस्तिष्ठति कोऽम्बुधौ? ॥१६॥ मूर्च्छिता न्यपतत्पृथ्व्यां, तच्च श्रुत्वा प्रभावती ॥ कथंचिल्लब्धसंज्ञा तु, रुदतीति जगाद तम् ॥१७॥ विश्लेषं नेश्महे सोढुं, पुत्र ! प्राणप्रियस्य ते ॥ तद्यावत्स्मो वयं ताव-त्तिष्ठ पश्चात्परिव्रजेः ॥१८॥ कुमारः स्माह संयोगाः, सर्वेऽमी स्वप्नसन्निभाः ॥ नृणामायुश्च वातास्त-कुशाग्रजलचञ्चलम् ! ॥१९॥ तन्न जानामि कः पूर्वं, पश्चाद्वा प्रेत्य यास्यति ॥ तदद्यैवानुजानीत, प्रव्रज्याग्रहणाय माम् ॥२०॥ देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः ॥ भुक्त्वा तदङ्ग ! सौख्यानि, गृह्णीया वार्द्धके व्रतम् ॥२१॥ कुमार: स्माह रोगाढ्ये- शुचिपूर्णे मलादिले ॥ कारागार इवाऽसारे, UTR-2 ॥३५२॥

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386