Book Title: Uttaradhyayanam Sutram Part 02
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 357
________________ उत्तराध्य यनसूत्रम् ॥३५५॥१५ दीक्षानावं दत्त पूज्या, मज्जतो मे भवार्णवे ! ॥ ४८ ॥ ततस्तैर्दीक्षितस्तीव्रं स व्रती पालयन्व्रतम् ॥ चतुर्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीबलः ॥ ४९ ॥ तप्यमानस्तपोऽत्युग्रं द्वादशाब्दीं विहृत्य सः ।। मासिकानशनेनाभू-त्स्वर्लोके पञ्चमे सुरः ॥५०॥ तत्र चायं पूरयित्वा सागराणि दशाऽऽयुषा ॥ च्युत्वाऽभूद्वाणिजग्रामे श्रेष्ठिश्रेष्ठः सुदर्शनः ॥५१॥ सम्यग्दर्शनपूतात्मा द्योतयन् जिनशासनम् ॥ चिरं सुदर्शनस्तत्र श्राद्धधर्ममपालयत् ॥५२॥ तत्र ग्रामेऽन्यदा स्वामी, श्रीवीरः समवासरत् ॥ केकीवाब्दं तमायातं श्रुत्वा श्रेष्ठी जहर्ष सः ॥५३॥ ततो नत्वा जिनं श्रुत्वा धर्मं स श्रेष्ठपुङ्गवः ॥ विरक्तो व्रतमादत्त दत्तवित्तव्रजोऽर्थिषु ॥५४॥ तत्राऽपि स श्रेष्ठमुनिः सदङ्ग-पूर्वाणि पूर्वाण्यखिलान्यधीत्य ॥ कर्मक्षयासादितकेवलर्द्धि-भेजे महानन्दमुदारकीर्त्तिः ॥ ५५ ॥ इति महाबलर्षिकथा ॥ 'अयं पञ्चमाङ्गभणितो महाबल इहोतो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः" इति सप्तदशसूत्रार्थः ॥५१॥ इत्थं महापुरुषदृष्टान्तैर्ज्ञानपूर्वकक्रियाफलमुपदर्श्य साम्प्रतमुपदेष्टुमाह- 44 मूलम्-कहं धीरे अहेऊहिं, उम्मत्तोव्व महिं चरे । एए विसेसमादाय, सूरा दढपरक्कमा ॥५२॥ व्याख्या-- कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पितकुहेतुभिरुन्मत्त इव ग्रहगृहीत इव तत्त्वापलपनेनालजालभाषितया महीं भुवं चरेद्भ्रमेन्नैव चरेदित्यर्थः । कुत इत्याह यत एते पूर्वोक्ता भरतादयो विशेषं मिथ्या १ ज्ञात्वा इति 'घ' "पुस्तके ॥ अष्टादशमध्ययनम् ( १८ ) महाबलराजर्षिकथा ४८-५५ UTR-2 गा ५२ ॥३५५ ॥

Loading...

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386