Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 336
________________ ૨૬૨ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૩૨ मिथ्यादर्शनेन तत्त्वार्थाश्रद्धानरूपेण परिग्रहात्-अध्यासात् कारणात्, किमित्याह-'विपरीतग्राहकत्वम्' अयथावस्तुपरिच्छेदित्वमेतेषांमत्यादीनां, तस्माद्विपरीतग्राहकत्वात् अज्ञानानि भवन्ति, मिथ्यात्वलक्षणौदयिकभावयोगादित्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासार्थः, मतिज्ञानमिति ज्ञानं मिथ्यात्वोदयाद्विपरीतग्राहकं मत्यज्ञानं भवति, एवं श्रुताज्ञानं, एवं विभङ्गज्ञानमिति, विभङ्गावयवं व्याचष्टे-अवधेविपरीतो-मिथ्यात्वोदयाद्विपरीतग्राहकः अतीन्द्रियार्थविषयो बोधः विभङ्ग इत्युच्यते शास्त्र इति, ततश्च न तदेव ज्ञानं तदेवाज्ञानम्, अपि तु निमित्तभेदात् ज्ञानाज्ञानव्यवस्थेति भावार्थः । 'अत्राहे'त्यादि, अत्र ज्ञानेतरविभाग उक्ते चोदक आह-'उक्तं भवता' प्रतिपादितं त्वया, किमित्याह-'सम्यगि'त्यादि, सम्यग्दर्शनेनतत्त्वार्थश्रद्धानरूपेण परिगृहीतम्-अधिष्ठितं मत्यादित्रयं ज्ञानं भवत्यविपरीतार्थग्राहि, अन्यथा मिथ्यादर्शनपरिगृहीतमज्ञानमेवेत्ययथार्थग्राहीति यावता मिथ्यादृष्टयोऽपि च लौकिकास्तन्त्रान्तरीयाश्च एते च द्विविधा इत्याह-'भव्याश्चाभव्याश्च' सिद्धिभवनयोग्या भव्याः अयोग्यास्त्वभव्याः, एते च 'इन्द्रियनिमित्तान्' उपलब्धौ स्पर्शनादीन्द्रियापेक्षान् ‘अविपरीतान्' यथावस्थितान् ‘स्पर्शादीनन्' स्पर्शरसगन्धवर्णशब्दान् उपलभन्ते स्वतः उपदिशन्ति चान्येभ्यः, कथमित्याह-'स्पर्श' शीतादिकं 'स्पर्श' इत्येवमुपलभन्ते उपदिशन्ति च, तथा रसं-तिक्तादिकं रस इत्येवं, एवं शेषान्-गन्धरूपशब्दानवैपरीत्येन, ततः कथमेतदिति, न बाधकं प्रत्ययमन्तरेण मिथ्यादृष्टिज्ञानानामयथार्थग्राहितेत्यर्थः, अत्रोच्यते गुरुवर्गेण, 'तेषां ही'त्यादि तेषां-मिथ्यादृष्टीनां यस्माद्विपरीतमेतद्-अधिकृतज्ञानं मिथ्यात्वग्रहावेशाद्भवत्यतोऽज्ञानमेवेति ॥१-३२॥ ટીકાર્થ– અહીં સૂત્રમાં અવધિ શબ્દનું ગ્રહણ કરવું જોઇએ, તેના બદલે અવિભંગ શબ્દનું ગ્રહણ કર્યું તે અવધિજ્ઞાનનો વિપર્યય વિભંગ છે એમ જણાવવા માટે છે. આ ત્રણ જ્ઞાનભેદો અજ્ઞાન પણ હોય અને

Loading...

Page Navigation
1 ... 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410