Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
सूत्र-33 શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧
૨૬૫ માટીનું ઢેકું કહે છે. તે ક્યારેક માટીના ઢેફાને માટીનું ઢેકું કહે છે અને સુવર્ણને સુવર્ણ કહે છે. આમ છતાં સામાન્યથી તો માટીના ઢેફાને સુવર્ણ અને સુવર્ણને માટીનું ઢેકું એમ વિપરીતપણે જાણતા તેનું ચોક્કસ અજ્ઞાન જ છે. તેવી રીતે મિથ્યાદર્શનથી જેની ઇન્દ્રિયો અને મતિ હણાઈ ગઈ છે मेवा मिथ्याष्टिन। भति-श्रुत-पिशान ५९ मन छे. (१-33)
टीका- सच्चासच्च सदसती, सद्विद्यमानं असदविद्यमानमुभयोः सदसतोरविशेषाद्-अभेदात्, अबोधमधिकृत्य, अयथावबोधादित्यर्थः, यत्रापि यथाबोधाध्यवसायस्तत्रापि यदृच्छोपलब्धेः-अनालोचितोपलब्धेः उन्मत्तवद् उन्मत्तस्येवाज्ञानमेवेति सूत्रार्थः, अवयवार्थं त्वाह भाष्यकारः'यथोन्मत्ते'त्यादिना, यथोन्मत्तो वायुपिशाचादिगृहीतः 'कर्मोदयाद्' ज्ञानावरणीयादिकर्मविपाकात् उपहतेन्द्रियमतिः स्मरन्, किमित्याह'विपरीतग्राही भवति' अन्यथावस्थितवस्तुपरिच्छेदीत्यर्थः, अत एव 'सोऽश्व'मित्यादि, स उन्मत्तः अश्वं सन्तं गौरित्यध्यवस्यति-गौरयमित्येवं गृह्णाति, तथाभिधानात्, गां च संतमश्वोऽयमित्यध्यवस्यति, एवं लोष्टमृदात्मकं सुवर्णमिति, सुवर्णं लोष्टमिति, कदाचिल्लोष्टं च लोष्टमित्यध्यवस्यति, एवं सुवर्णं च सुवर्णमिति, तस्योन्मत्तस्य एवमुक्तनीत्याऽविशेषेण अयथावबोधेन लोष्टसुवर्णे द्वे अपि संमूढचेतनत्वात्तत्त्वतस्तुल्ये, गवाश्वोपलक्षणमेतत्, एतावपि तुल्यौ, चेतनाचेतनेषु सर्वत्र सङ्ग्रह इति ज्ञापनार्थं उदाहरणबहुत्वं, ततश्च 'लोष्ट'मित्यादि, लोष्टं सुवर्णमित्येवं विपरीतमध्यवस्यतः-गृह्णतः, किमित्याह-नियतं-निश्चितं अज्ञानमेव, कुत्सितं ज्ञानमेव, न ज्ञानं भवति, एवं दृष्टान्तमभिधाय दार्टान्तिकयोजनामाह-'तदि'त्यादिना, यद्वत् प्रागुक्तमज्ञानं तद्वन्मिथ्यादर्शनोपहतेन्द्रियमतेः प्रमातुः मतिश्रुतावधयोऽपि प्रागुक्तस्वरूपाः अज्ञानान्येव भवन्ति, मिथ्यादर्शनग्रहणेन संमूढचेतनत्वात्, अत एव मनुष्य एव देवः तदव्यतिरिक्तो वेति साङ्ख्यादीनां प्रतिपत्तिः सदसदविशेषेणेति भावनीयमलं प्रसङ्गेनेति, निगमनमाह ॥१-३३।।