Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 362
________________ ૨૮૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૩૫ एकानेकस्वभावे वस्तुनि सन्निबन्धनोऽयं सकलव्यवहारः सर्वथैकस्वभावे त्वनिबन्धन इत्यत्याज्य एव, प्रत्यक्षादिज्ञानाभेदप्रसङ्गात्, सर्वथैकालम्बनत्वापत्तेः, निर्विषयत्वे चातिप्रसङ्गात्, सङ्ख्यादिनियमत्वानुपपत्तेरिति प्रपञ्चितमेतदन्यत्रेति नेह प्रयासः, अभिहितमेवार्थं पूर्वाचार्यबहुमतोऽयमिति तत्सङ्ग्रह्यार्याभिरुपप्रदर्शयन्नाह-'आह चे'त्यादि, आह च कस्मिन्'नैगमे'त्यादि, नैगमशब्दार्थानामिति निगमा-जनपदा तत्र भवाः नैगमाःशब्दा अर्थाश्च तेषामेकानेकार्थनयगमापेक्ष इति, एको-विशेषः एकत्वात् अनेकं-सामान्यमनेकाश्रितत्वात् तावेव अर्थावर्यमाणत्वात्, तथा नयगमःपरिच्छेदप्रकारः तमपेक्षते-अभ्युपैति यः स तथाविधः, अमुमेवार्थं पूर्वाचार्यवाचोयुक्त्याऽनुस्मारयन्नाह-'देशसमग्रग्राही ति देशो-विशेषः समग्रं-सामान्यं तयोर्चाही-आश्रयति, 'व्यवहारी'ति व्यवहारोऽस्य सामान्यविशेषाभ्यां परस्परविमुखाभ्यामस्तीति व्यवहारी 'नैगमो ज्ञेयः' नैगमनयो ज्ञातव्य इति १॥ सङ्ग्रहार्यामाह-'यत् सगृहीतवचन'मित्यादि, यदिति ज्ञानं सम्बध्यते, कीदृशं तदित्याह-'सगृहीतवचनं' सगृहीतंसामान्यं तदेवोच्यत इति वचनं, ततश्च सगृहीतं वचनं यस्य ज्ञानस्य तत् सङ्ग्रहीतवचनं, सामान्यज्ञानमित्यर्थः, एतच्च सामान्ये सत्तायां देशतः प्रक्रमात् गोत्वादेरेतद्देशात् विशेषाच्च खण्डादेः अपोह्येति शेषः, तद्व्यतिरेकेण तदभावात्, तदसत्त्वप्रसङ्गात्, एवंभूतं यद् ज्ञानं तत् सङ्ग्रहनयसंज-सङ्ग्रहनयनियतं विद्यात्-जानीयात् 'नयविधिज्ञो' नयभेदवित् २॥ व्यवहारार्यात्वियं-'समुदाये'त्यादि, समुदायः-संघातः, व्यक्ति:-मनुष्यत्वं, आकृतिः-संस्थानं, सत्ता-महासामान्यं संज्ञादयोनामस्थापनाद्याः एषां निश्चयो-विशेषः तमपेक्षते-अभ्युपैति समुदायादिनां निश्चयापेक्षः, समुदायादीनां समुदायादिव्यतिरेकेणाभावात्, न समुदायादीनां समुदायः समुदायिभ्योऽन्यः, न च मनुष्यत्वं मनुष्यातिरिक्तं, न चाकृतिराकृतिमद्भयः, न सत्ता सद्भयः, न च नामादयो नम्यमाना

Loading...

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410