Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૩૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૮૯ दीन्यन्तरेण, विशेषप्रधानत्वात्, तदपेक्षं तं विद्यादिति सम्बन्धः, 'लोकोपचारनियत'मिति लोकोपचारनिषण्णः, लोकोपचारस्तु दह्यते गिरिर्गलति भाजनमित्यादि, 'व्यवहार'मिति नयं, विस्तृतमुपचरितार्थाश्रयणाद्विस्तीर्णं विद्यादित्यवबुध्येत ३॥ ऋजुसूत्रशब्दनयसङ्ग्रहमाह 'साम्प्रत'मित्यादिना, साम्प्रतविषयग्राहकं-वर्तमानज्ञेयपरिच्छेदकं ऋजुसूत्रनयं प्रकान्तमेव समासत:-सङ्क्षपेण विद्यात्-जानीयाद्, यथार्थशब्दमित्यनेनैवंभूत एव प्रकाशितो लक्ष्यते, सर्वविशुद्धत्वादस्येति, दर्शितमेतत्, साम्प्रतसमभिरूढसङ्ग्रहार्थमाह-'विशेषितपदं त्वि'ति विशेषितं पदं-नामादि प्रसिद्धपूर्वकत्वादित्यादिना, 'शब्दनय'मिति ४॥ इतिशब्दो नयानुस्मरणनिष्ठासूचकः । अत्राह परः-'अर्थ'त्युपन्यासे, जीव इति शुद्धपदेनाकारिते-आदिष्ट इति योगः, तथा नोजीव इति देशसर्वप्रतिषेधे वा नियुक्ते, एवं 'अजीव' इति प्रतिषेधे वा नियुक्ते, एवं नोअजीव इति प्रतिषेधद्वयसमन्विते एवमाकारिते उच्चरिते सति केन नयेन नैगमादिना कोऽर्थः प्रतीयत इति, प्राग् घटपदार्थमजीवमेव केवलमधिकृत्यैव तदर्थप्ररूपणा कृतेति संशयबीजं परस्य, एवं पूर्वपक्षसम्भवे सूरिराह-'अत्रोच्यत' इत्यादि, जीव इत्याकारिते शुद्धपदेनादिष्टे किमित्याह-'नैगमे'त्यादि, नैगमश्च देशसङ्ग्रहश्च व्यवहारश्चेत्यादिः समासः, नैगमेन देशग्राहिणा तथा व्यवहारेण विशेषग्राहिणा ऋजुसूत्रेण वर्तमानग्राहिणा साम्प्रतेन समभिरुढेन च एभिः सर्वैरेव समृविंभूतवजैः पञ्चस्वपि गतिषु-नरकतिर्यङ् मनुष्यदेवसिद्धिगतिलक्षणेभ्यः अन्यतमो नारकादिगतिवर्ती जीव इत्येवं जीवः प्रतीयते, नाभावो नापि भावान्तरं, कस्मादिति चोदकाभिप्रायमाशङ्क्याह-एते हि यस्मान्नैगमादयो नया जीवं प्रति जीवमङ्गीकृत्य 'औपशमिकादियुक्तभावग्राहिणः' औपशमिकादियुक्तं भावं-अर्थं ग्रहीतुं शीला यतः, अतः सिद्धिगतावपि क्षायिकभावात् पञ्चग्रहणमिति ।
Loading... Page Navigation 1 ... 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410