Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
सूत्र-उप
२. निर्देशादिसूत्रे श्रीमद्भिः सम्यक्त्वावरणीयतायाः ज्ञानावरणीयादीनां निरसनं कृतं श्रीसिद्धसेनैः स्वीकृतं तत्, तथा नारकायुषस्याश्रवे कुणिमाहारादीनां सङ्ग्रहः सूरिभिः स्वीकृतः श्रीसिद्धसेनैस्तु तन्निराकरणमकारि, ततः प्रकृताया वृत्तेः प्राचीनत्वं ।
330
३. विंशिकायां यथाऽऽस्तिक्यादीनां सम्यक्त्वलक्षणानां पश्चानुपूर्वीता व्याकृता तथाऽत्रापि तत्त्वार्थ श्रद्धानसूत्रे ।
५.
तिर्यग्लोकगतक्षेत्राणां परिध्यादिमानसूचकानां सूत्राणां केषाञ्चिदुभयैरपि कृत्रिमतोक्ताऽत्र, परं समानशब्दा सा, अन्तरद्वीपकभाष्यस्य सर्वत्रकदुर्विदग्धविनाशितताऽपिचोभयसंमता ६. श्रीहरिभद्रसूरिसूत्रितमेव वीरं प्रणम्येति मङ्गलं श्रीदेवगुप्तसूरिभिः कारिकाव्याचिख्यासुभिः कृतं सैव च व्याख्या श्रीसिद्धसेनसूरिभिः स्ववृत्तेरादौ संमतेति
४.
अक्षरगमनिकामात्रफलत्वात् प्रस्तुतप्रारम्भस्येति बहुषु स्थानेषु यदुपलभ्यते तदेव च श्रीमद्भिर्विहिते आवश्यकविवरणादौ श्रीमतां जिनेश्वराणां वरबोधिलाभता यथाऽष्टकप्रकरणे ललितविस्तराख्यवृत्तौ च तथाऽत्रापि यः शुभकर्मासेवनेत्यार्याया विवरणे ९. बहुषु स्थानेषु विवेचितमन्यत्र निर्णीतमन्यत्रेत्याद्या अतिदेशा अनेकागाधग्रन्थकर्त्तृतामेव वृत्तिकृतां सूचयन्ति
७.
८.
१०. द्वितीयाध्याये जीवभेदाधिकारे प्राभृतकारनाम्ना यद् गाथाद्वयमुद्धृतं तदधुनातनेषु ग्रन्थेष्वनुपलभ्यं न च स ग्रन्थोऽप्युपलब्धिविषय इति । तदेवं विविधहेतुभिरियं वृत्तिः श्रीभवविरहाङ्कुरेव श्रीहरिभद्रसूरिभिः सूत्रितेति निःशङ्कं । भाष्यमेतदीयं स्वोपज्ञमेव श्रीउमास्वातिवाचकवर्याणां, एतदपि निम्नोल्लिखितेभ्यो हेतुभ्यो निश्चीयते
मोक्षमार्गकथनोपक्रमो भाष्ये, तदुपक्रमापेक्षं चेत् सूत्रं न स्यात् स्यात् सम्यग्दर्शनज्ञानचारित्रेण मोक्ष इति
Loading... Page Navigation 1 ... 402 403 404 405 406 407 408 409 410