Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૩૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૩૨૯ પરમ પૂજ્ય આચાર્ય શ્રીમદ્ આનંદસાગરસૂરીશ્વરજી (સાગરાનંદસૂરિજી) મહારાજાએ લખેલો તત્ત્વાર્થાધિગમ સૂત્રનો ઉપક્રમ અહીં awani मावे छ॥ श्रीहरिभद्रसूरिसूत्रितवृत्त्याऽलंकृतस्य सभाष्यतत्त्वार्थस्योपक्रमः ॥
शास्त्रमिदं तत्त्वार्थाधिगमाख्यं वर्तमानयुगीनानां दिगम्बराणां श्वेताम्बराणां चातितरां महनीयास्पदमिति न कोऽपि विसंवादः । अनेका वृत्तयोऽस्य द्वयेऽपि स्वस्वसम्प्रदायाचार्यकृताः सन्तीति मन्यन्ते, इयं च वृत्तिर्मुद्यमाणा भगवद्भिः श्रीहरिभद्रसूरिभिर्विहिता, नेयं मुद्रितपूर्वा न च सुलभेति मुद्रणमस्या अत्यावश्यकमेव, यतो न श्वेताम्बरसम्प्रदाये प्रचलन्तीषु वृत्तिषु न काऽपीतः प्रयत्नेति मुद्रणेऽस्याः प्रवृत्तिर्युक्ततामेति, दिगम्बरीया अपि वृत्तयो नातः प्राक्तनाः, न चात एव तासां विचारोऽत्र, किञ्च-इमे अनेकशः स्वोपज्ञं भाष्यमेवास्य वृत्तितयोल्लिखन्ति, भाष्यं भाष्यतया तत्कर्तारं च भाष्यकारकतया तु स्थाने स्थाने उल्लिखन्त्येव, परमेतस्माद्भाष्यात् न परं तदानीं विवरणमिति भाष्यवृत्त्युभयतयोल्लेखो भाष्यस्य नासम्भवी । यद्यपि श्रीहरिभद्रनामानोऽनेके सूरीशाः श्रीजैनशासनान्तरीक्षोद्योतिनोऽभूवन् परमिमे वृत्तिकर्तारः श्रीहरिभद्रसूरयश्चतुर्दशशती प्रकरणानां ये व्यधुस्त एवेत्यवसीयते, कारणानि च तत्रेमानि१. एतस्या वृत्तेः श्रीमद्भिर्हरिभद्राचार्यारब्धत्वेऽपि अर्धषडध्यायीं
यावद्विवृत्तं तैः, अत एवार्धषडध्यायी यावत् समुदायावयवार्थयोः पार्थक्यं, न परतः, तत्रापि विनयसंपन्नतेति सूत्रात् श्रीयशोभद्रसूरिभिरुद्धर्तुमारब्धा, साऽपि दशमाध्यायांतक्षेत्रकालादिसूत्रात् प्राग्भागं यावदुद्धृता, शेषा च तेषां श्रीयशोभद्रसूरीणामन्तेवासिनोद्धृता, स्पष्टं चेदं तत्रत्यवृत्तिप्रान्तपाठेन, एवं च श्रीसिद्धसेनीयाया वृत्तेः प्राचीनेयं वृत्तिः, श्रीसिद्धसेनसूरिभ्यश्च प्राक्कालीना एत एव चतुर्दश(शत)प्रकरणकाराः श्रीहरिभद्रसूरयः ।
Loading... Page Navigation 1 ... 401 402 403 404 405 406 407 408 409 410