Book Title: Tattvarthadhigam Sutram Part 01
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 365
________________ સૂત્ર-૩૫ શ્રી સ્વાર્થાધિગમસૂત્ર અધ્યાય-૧ ૨૯૧ शीलमस्येति विग्रहस्तद्भावः तस्मात्, अस्य नयस्यैवंभूतस्य नानेन एवंभूतनयेन देशप्रदेशौ-स्थूलसूक्ष्मावयवौ गृह्यते इति, एवमेकवचनेन चत्वारो विकल्पा दर्शिताः, एवं द्विवचनबहुवचनाभ्यामपि द्रष्टव्या इत्यभिधातुमाह-‘एवं जीवौ जीवा' इति, द्वित्वबहुत्वाकारितेष्वपि चत्वारो विकल्पाः, तद्यथा-जीवौ नोजीवौ अजीवौ नोअजीवौ, बहुवचनेऽपि जीवाः नोजीवाः अजीवा नोअजीवा इति, एकवचनद्वित्वबहुत्वाकारितेष्वप्येवमेवाभ्युपगमो नैगमादीनामित्यर्थः, सर्वसङ्ग्रहमधिकृत्याह-'सर्वसङ्ग्रहे'त्यादि, सर्वसङ्ग्रहेण तु नयेनसामान्यवस्तुग्राहिणा जीवो नोजीव इत्यादि एकवचनद्विवचनानां विकल्पा नेष्यन्ते, अस्य ह्येवंभूतं वस्तु शून्यं-प्रतिपत्त्यगोचरः, कस्मादित्याह-'एष ही'त्यादि, एष यस्मान्नयः सङ्ख्यानन्त्याज्जीवानां बहुत्वमेवेच्छतीति प्रतीयते, 'यथार्थग्राही'ति नैकवचनद्विवचनार्थः इह विद्यत इत्यभिप्रायः, चित्रमतश्चैष इत्येवमविरोधः, अयं विशेषोऽनेन प्रतिपन्नो देशसङ्ग्रहव्यवहारादिभ्य इति भावना पूर्ववत्, ‘शेषास्त्वि'त्यादि, शेषास्तु नैगमादयो नयाः जात्यपेक्षमेकस्मिन्नेव जीवादौ बहुवचनमिच्छन्ति, कथमित्याह-'जात्यपेक्षं' जातिम्-सामान्यरूपामपेक्षते यत्तज्जात्यपेक्षं बहुवचनं, जातेरनेकाश्रयत्वात्, जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यां (पा० १-२-५८) बहुवचनात् बहुषु चैकवचनं जात्यपेक्षमेवेति, 'सर्वाकारितग्राहिण' इति सर्ववचनादिभिराकारितान्-उच्चारितान् अनेकान् विकल्पान् गृह्णन्ति तच्छीलाश्चेति सर्वाकारितग्राहिण इति एतन्मतसमाप्त्यर्थः, “एव'मित्यादि, एवं सर्वभावेषु-धर्मास्तिकायादिषु नयवादेनानुगमः अनुसरणलक्षणः कार्यः इत्यतिदेश एषः । एवं प्रमेयनयानुगम उक्तः, साम्प्रतं प्रमाणमधिकृत्यैनमभिधातुं चोदकद्वारेणाह'अत्राहे'त्यादि, - 'अत्रे'त्युपन्यासार्थः पञ्चानां ज्ञानानां मत्यादीनां सविपर्ययाणां सह विपर्ययेण-अज्ञानस्वभावेन यानि वर्तन्ते तेषां कानि

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410