________________
સૂત્ર-૩૫ શ્રી સ્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૯૧ शीलमस्येति विग्रहस्तद्भावः तस्मात्, अस्य नयस्यैवंभूतस्य नानेन एवंभूतनयेन देशप्रदेशौ-स्थूलसूक्ष्मावयवौ गृह्यते इति, एवमेकवचनेन चत्वारो विकल्पा दर्शिताः, एवं द्विवचनबहुवचनाभ्यामपि द्रष्टव्या इत्यभिधातुमाह-‘एवं जीवौ जीवा' इति, द्वित्वबहुत्वाकारितेष्वपि चत्वारो विकल्पाः, तद्यथा-जीवौ नोजीवौ अजीवौ नोअजीवौ, बहुवचनेऽपि जीवाः नोजीवाः अजीवा नोअजीवा इति, एकवचनद्वित्वबहुत्वाकारितेष्वप्येवमेवाभ्युपगमो नैगमादीनामित्यर्थः, सर्वसङ्ग्रहमधिकृत्याह-'सर्वसङ्ग्रहे'त्यादि, सर्वसङ्ग्रहेण तु नयेनसामान्यवस्तुग्राहिणा जीवो नोजीव इत्यादि एकवचनद्विवचनानां विकल्पा नेष्यन्ते, अस्य ह्येवंभूतं वस्तु शून्यं-प्रतिपत्त्यगोचरः, कस्मादित्याह-'एष ही'त्यादि, एष यस्मान्नयः सङ्ख्यानन्त्याज्जीवानां बहुत्वमेवेच्छतीति प्रतीयते, 'यथार्थग्राही'ति नैकवचनद्विवचनार्थः इह विद्यत इत्यभिप्रायः, चित्रमतश्चैष इत्येवमविरोधः, अयं विशेषोऽनेन प्रतिपन्नो देशसङ्ग्रहव्यवहारादिभ्य इति भावना पूर्ववत्, ‘शेषास्त्वि'त्यादि, शेषास्तु नैगमादयो नयाः जात्यपेक्षमेकस्मिन्नेव जीवादौ बहुवचनमिच्छन्ति, कथमित्याह-'जात्यपेक्षं' जातिम्-सामान्यरूपामपेक्षते यत्तज्जात्यपेक्षं बहुवचनं, जातेरनेकाश्रयत्वात्, जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यां (पा० १-२-५८) बहुवचनात् बहुषु चैकवचनं जात्यपेक्षमेवेति, 'सर्वाकारितग्राहिण' इति सर्ववचनादिभिराकारितान्-उच्चारितान् अनेकान् विकल्पान् गृह्णन्ति तच्छीलाश्चेति सर्वाकारितग्राहिण इति एतन्मतसमाप्त्यर्थः, “एव'मित्यादि, एवं सर्वभावेषु-धर्मास्तिकायादिषु नयवादेनानुगमः अनुसरणलक्षणः कार्यः इत्यतिदेश एषः । एवं प्रमेयनयानुगम उक्तः, साम्प्रतं प्रमाणमधिकृत्यैनमभिधातुं चोदकद्वारेणाह'अत्राहे'त्यादि, - 'अत्रे'त्युपन्यासार्थः पञ्चानां ज्ञानानां मत्यादीनां सविपर्ययाणां सह विपर्ययेण-अज्ञानस्वभावेन यानि वर्तन्ते तेषां कानि