SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ૨૯૨ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૩૫ मत्यादीनि को नयो नैगमादिः श्रयते अभ्युपगच्छतीति, अत्रोच्यते, 'नैगमे'त्यादि, नैगमादयस्तु य आद्या एव-नैगमसङ्ग्रहव्यवहाराः सर्वाणि मत्यादीनि श्रयन्ते, कानीत्याह-अष्टौ मतिज्ञानं मत्यज्ञानमित्यादिना प्रकारेण पञ्च ज्ञानानि त्रयो विपर्यया इतिकृत्वा श्रयन्ते-अभ्युपगच्छन्ति, यतः सर्वाण्येव तान्यर्थं परिच्छिन्दन्ति, 'ऋजुसूत्रनयो मतिमत्यज्ञानविवर्जितानि षट् श्रयत' इति, अत्राह परः-कस्मात् मतिमुक्तलक्षणां सविपर्ययां मत्यज्ञानसहितां न श्रयति-नेच्छति ?, अत्रोच्यते-श्रुतस्यश्रुतज्ञानस्य सविपर्ययस्य श्रुताज्ञानसहितस्य उपग्रहत्वात् उपकारकत्वात्, मतिमत्यज्ञाने श्रुतस्य श्रुताज्ञानसहितस्य उपग्रहं कुरुते, तत्कार्यभूतत्वात् श्रुतस्य, फलप्रधानश्चैष नय इत्यभिप्रायः । शब्दनय पुनर्भावार्थावलम्बी द्वे एव, के ते इत्याह-श्रुतज्ञानकेवलज्ञाने श्रयते-अभ्युपैति, अत्राह-अथ कस्मान्नेतराणि-मत्यादीनि श्रयत इति, अत्रोच्यते-मत्यवधिमनःपर्यायाणां त्रयाणामपि, किमित्याह-श्रुतस्यैवोपग्रहत्वात्-उपकारकत्वादिति, नात्मानमात्मना प्रतिपादयितुं क्षमाण्येतानि, मूककल्पत्वात्, श्रुतेन तु प्रतिपाद्यत इति श्रुतमुपकारकमेषां, उपकारि च श्रेयो जघन्यमुपकार्यमित्यधिकृतनयाभिप्रायः, केवलज्ञानं तु प्रधानमन्येनानुपकार्यं स्वसामर्थ्येनैव च प्रवर्तितवाग्योगमिति श्रयते, विपर्ययानाश्रयणे तु कारणमाह'चेतने'त्यादि, चेतना-जीवत्वं परिच्छेदत्वसामान्यं गृह्यते ज्ञ इत्यनेन तु विशेषपरिच्छेदिता, तयोश्चेतनाज्ञयोः स्वाभाव्यं-तथाभवनं तस्माच्च चेतनाज्ञस्वाभाव्याच्च सर्वजीवानां-पृथिवीकायिकादीनां नास्य नयस्य कश्चिन्मिथ्यादृष्टिरज्ञो वैकान्तेन जीवो विद्यते, यथावस्थितस्पर्शादिपरिच्छेदात्, आगमोऽपि किलैवमेव व्यवस्थितः 'सव्वजीवाणंपि अणं अक्खरस्स अणंतभागो णिच्चुग्घाडिओ'त्ति (नन्दीसूत्र)वचनात् सर्वे सम्यग्दृष्टयो ज्ञानिनश्च, तस्मादपि कारणात्, न केवलं श्रुतोपग्रहत्वेन, विपर्ययान्-मत्यादीन् न श्रयत इति नाभ्युपैति अतश्च-अस्मात्
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy