________________
સૂત્ર-૩૫
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
""
कारणात् प्रत्यक्षानुमानोपमानाप्तवचनानामपि च प्रागभिहितस्वरूपाणां प्रामाण्यमभ्यनुज्ञातमि (वंत इति एतेन यत् 'प्रत्यक्षमन्यदि' त्यस्मिन् सूत्रे प्रतिज्ञातं नयवादान्तरेण तु यथा मतिश्रुतविकल्पजानि भवन्ति तथा परस्ताद्वक्ष्यामः इति तदुक्तं वेदितव्यं, एवं हि सम्यग्दृष्टित्वात् सम्यग्ज्ञानित्वाच्च सर्वजीवानां सर्वज्ञानानामेव प्रामाण्यं प्रतिभासकत्वादिति ॥ साम्प्रतं प्रमाणनयविचारसमनन्तराध्यायार्थमुपसंहरन्नशङ्कार्थं वास्य पूर्वसूरिबहुमतत्वं कारिकाभिरुपदर्शयन्नाह 'आह चे 'त्यादि, आह च कश्चित् पूर्वसूरिः 'विज्ञाये' त्यादि, विज्ञाय एकार्थानि पदानिपर्यायशब्दरूपाणि तद्यथा - जीवः प्राणी जन्तुः इत्यादीनि च, अर्थपदानि च - निरुक्तपदानि, जीवतीति जीवः प्राणा अस्य विद्यन्त इति प्राणी, जायत इति जन्तुरित्येवमादीनि विधानं नामस्थापनादिकं इष्टं च निर्देशस्वामित्वादि चशब्दादन्यच्च तन्त्रयुक्त्यादि, तथाऽऽद्यं परोक्षस्य प्रामाण्यस्यादावभिधानं तत्पूर्वकमेव प्रत्यक्षमिति ज्ञापनार्थमित्यादि, विन्यस्य नामादिभिः परिक्षेपात् समन्तात् नयैः नैगमादिभिः परीक्ष्याणिमीमांस्यानि तत्त्वानि - जीवादीनि ॥ १॥ ज्ञानं मत्यादि सविपर्यासं-सह विपर्यासैः त्रिभिः त्रयः श्रयन्तीति त्रयो - नैगमादयः अभ्युपगच्छन्ति, आदितः आदेरारभ्य नया: सर्वमष्टविधं ज्ञानं विभङ्गान्तं एतच्च सामान्यतः सम्यग्दृष्टे :- उक्तलक्षणस्य ज्ञानं मिथ्यादृष्टेर्विपर्यासः मिथ्यात्वग्रहावेशादिति ॥२॥ 'ऋजुसूत्र' इत्यादि, ऋजुसूत्रो नयः षण् मतिमत्यज्ञानरहितानि श्रुतादीनि श्रयते मतिं सविपर्ययां श्रुतोपग्रहात् श्रुतोपकारकत्वात् अनन्यत्वात् श्रुतानन्यत्वेन न श्रयत इति श्रुतकेवले तु - श्रुतज्ञानकेवलज्ञाने तु पुनः शब्दः श्रयते उक्तनीत्या, अत एवाहनान्यत् मत्यादि श्रयते, श्रुताङ्गत्वात् श्रुतस्यैव तत्प्रतिविशिष्टबलाधानहेतुत्वादिति ||३|| 'मिथ्यादृष्टी' त्यादि, मिथ्यादृष्ट्यज्ञाने प्राक् प्रदर्शिते न श्रयते, कस्मादित्याह नास्य शब्दनयस्य कश्चिदज्ञोऽस्ति, कुत इत्याह
,,
૨૯૩