SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ૨૯૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ સૂત્ર-૩૫ , 'नोजीव' इत्यादिना, नोजीव उच्चरिते अजीवद्रव्यं धर्मादि प्रतीयत इति वर्त्तते, जीवस्य वा देशप्रदेशौ, देशः शिरोऽङ्गादिविभागः, प्रदेशस्त्वविभजनीयः कश्चित्, नोशब्दस्य सर्वदेशप्रतिषेधवचनत्वादिति, 'अजीव' इत्यादि, अजीव इति वोच्चरिते अजीवद्रव्यमेव धर्म्मादि, प्रतीयत इति वर्त्तते, सर्वप्रतिषेधवाचकत्वादकारस्य पर्युदासस्य चाश्रितत्वादिति, 'नोअजीव' इत्यादि, नोअजीव इति चादिष्टे जीव एव, नाभावो नापि भावान्तरं प्रतीयत इति वर्त्तते तस्य वाऽजीवस्य देशप्रदेशाविति पूर्ववत्, द्वयोरपि नोकाराकारयोः सर्वप्रतिषेधवाचकत्वात्, द्वौ प्रतिषेधौ प्रकृतं गमयत इतिकृत्वा ॥ एवमधिकृतनयवक्तव्यतामभिधाय एवंभूतवक्तव्यतामधिकृत्याह - ' एवंभूते' त्यादि, एवंभूतनयेन तु जीव इत्याकारिते-उच्चरिते सति 'भवस्थ' इति भवे स्थितो भवस्थः - संसारी जीवः प्रतीयते, कस्मात् सिद्धिगतित्याग इत्याह- 'एष हि' इत्यादि, एष यस्मान्नयः - एवंभूतः जीवं प्रत्येवं प्रवृत्तः - यदुत औदयिकादिभावग्राहक एव - औदयिकादिभावयुक्तं जीवमिच्छति, शब्दप्रवृत्तिनिमित्तापेक्षणात् यदाह - जीवतीति, जीव प्राणधारणे, प्राणानिन्द्रियादीन् धारयतीत्यर्थः, तच्च जीवनमिन्द्रियादिलक्षणं सिद्धे न विद्यते, तन्निबन्धनकर्म्माभावात्, तस्माद्भवस्थ एव जीव इत्येवंभूतनिगमनं ॥ 'नोजीव' इत्युच्चरिते अजीवद्रव्यं धर्म्मादि, प्रतीयत इति वर्त्तते, सिद्धो वा, तस्य प्राणलक्षणजीवलिङ्गानुपपत्तेः, नोशब्दस्य सर्वप्रतिषेधवाचकत्वात्, एतन्नयमतेन देशवाचकत्वासिद्धेः, देशिन एव देशत्वात्, भिन्नस्य तद्देशत्वायोगात्, सम्बन्धानुपपत्तेः, अनवस्थाप्रसङ्गादिति, 'अजीवे'त्यादि, अजीव इति उच्चरिते अजीवद्रव्यमेवाण्वादि, सर्वप्रतिषेधवाचकत्वादकारस्य, 'नोअजीव' इत्याकारिते भवस्थ एव जीव इति प्रतीयते, प्रतिषेधद्वयस्य प्रकृतगमकत्वाद्, देशप्रदेशानभ्युपगमे कारणमाह'समग्रार्थे' त्यादिना, समग्र :- सम्पूर्ण : अर्थो वस्तु समग्रार्थं ग्रहीतुं
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy