________________
૨૮૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૩૫ एकानेकस्वभावे वस्तुनि सन्निबन्धनोऽयं सकलव्यवहारः सर्वथैकस्वभावे त्वनिबन्धन इत्यत्याज्य एव, प्रत्यक्षादिज्ञानाभेदप्रसङ्गात्, सर्वथैकालम्बनत्वापत्तेः, निर्विषयत्वे चातिप्रसङ्गात्, सङ्ख्यादिनियमत्वानुपपत्तेरिति प्रपञ्चितमेतदन्यत्रेति नेह प्रयासः, अभिहितमेवार्थं पूर्वाचार्यबहुमतोऽयमिति तत्सङ्ग्रह्यार्याभिरुपप्रदर्शयन्नाह-'आह चे'त्यादि, आह च कस्मिन्'नैगमे'त्यादि, नैगमशब्दार्थानामिति निगमा-जनपदा तत्र भवाः नैगमाःशब्दा अर्थाश्च तेषामेकानेकार्थनयगमापेक्ष इति, एको-विशेषः एकत्वात् अनेकं-सामान्यमनेकाश्रितत्वात् तावेव अर्थावर्यमाणत्वात्, तथा नयगमःपरिच्छेदप्रकारः तमपेक्षते-अभ्युपैति यः स तथाविधः, अमुमेवार्थं पूर्वाचार्यवाचोयुक्त्याऽनुस्मारयन्नाह-'देशसमग्रग्राही ति देशो-विशेषः समग्रं-सामान्यं तयोर्चाही-आश्रयति, 'व्यवहारी'ति व्यवहारोऽस्य सामान्यविशेषाभ्यां परस्परविमुखाभ्यामस्तीति व्यवहारी 'नैगमो ज्ञेयः' नैगमनयो ज्ञातव्य इति १॥ सङ्ग्रहार्यामाह-'यत् सगृहीतवचन'मित्यादि, यदिति ज्ञानं सम्बध्यते, कीदृशं तदित्याह-'सगृहीतवचनं' सगृहीतंसामान्यं तदेवोच्यत इति वचनं, ततश्च सगृहीतं वचनं यस्य ज्ञानस्य तत् सङ्ग्रहीतवचनं, सामान्यज्ञानमित्यर्थः, एतच्च सामान्ये सत्तायां देशतः प्रक्रमात् गोत्वादेरेतद्देशात् विशेषाच्च खण्डादेः अपोह्येति शेषः, तद्व्यतिरेकेण तदभावात्, तदसत्त्वप्रसङ्गात्, एवंभूतं यद् ज्ञानं तत् सङ्ग्रहनयसंज-सङ्ग्रहनयनियतं विद्यात्-जानीयात् 'नयविधिज्ञो' नयभेदवित् २॥ व्यवहारार्यात्वियं-'समुदाये'त्यादि, समुदायः-संघातः, व्यक्ति:-मनुष्यत्वं, आकृतिः-संस्थानं, सत्ता-महासामान्यं संज्ञादयोनामस्थापनाद्याः एषां निश्चयो-विशेषः तमपेक्षते-अभ्युपैति समुदायादिनां निश्चयापेक्षः, समुदायादीनां समुदायादिव्यतिरेकेणाभावात्, न समुदायादीनां समुदायः समुदायिभ्योऽन्यः, न च मनुष्यत्वं मनुष्यातिरिक्तं, न चाकृतिराकृतिमद्भयः, न सत्ता सद्भयः, न च नामादयो नम्यमाना