SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૩૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ ૨૮૭ प्रत्तयोऽनन्तरोपन्यस्ता न विप्रतिपत्तयो न विरुद्धाः प्रतिपत्तयः, सर्वस्य जगतः तत्तद्धर्मभेदेन तस्यैव तथाप्रतीतेः, अथ च अध्यवसायस्थानान्तराणि-विज्ञानान्तराण्येतानि, प्रतिपत्त्यपह्नवायोगात्, अतिप्रसङ्गापत्तेः शून्यताप्रसङ्गादिति, 'तद्वन्नयवादा' इत्यनेकधर्मात्मकवस्तुगोचराः क्षयोपशमवैचित्र्यतस्तत्तद्धाध्यवसायनिबन्धना इत्यर्थः, निदर्शनान्तरमाह-'किञ्चान्यदि'त्यादिना, यथा मतिज्ञानादिभिः प्रागभिहितस्वरूपैः पञ्चभिः केवलान्तैः ज्ञानैर्धर्मादीनामस्तिकायानां वक्ष्यमाणलक्षणानामन्यतमोऽर्थ इति-धर्मादिः पृथक् पृथगध्यवसायभेदेनोपलभ्यते, तथा अनुभवसिद्धत्वाद्, इहैव निमित्तमाह-'पर्यायविशुद्धिविशेषादि'ति, पर्याया-वस्तुभेदाः विशुद्धि:-क्षयोपशमादिरूपा तद्विशेषात्-तद्भेदात् उत्कर्षेण-प्रकर्षेण लभ्यते, एकं च तद्वस्तु अनेकधर्मात्मकतया, न च ता विप्रतिपत्तयो मिथ्यादिप्रतिपत्तयः, तद्वन्नयवादा न विप्रतिपत्तय इति भावितमेतत्, निदर्शनान्तरमाह-'यथा वे'त्यादिना, यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः चतुर्भिः प्रमाणैः एकोऽर्थः प्रमीयते अग्न्यादिः प्रत्यक्षेणासन्नेन प्रमात्रा ज्वलद्भास्वराकारस्तार्णादिविशेषः, अनुमानेन तु धूमाद्विप्रकृष्टेन सामन्यतस्तद्देशनियतः, उपमानेन तु मध्यदेशवर्तिना निर्धूमः कनकपुञ्जपिञ्जरत्वसाधर्म्यण, आप्तवचनेन तु विप्रकृष्टेन प्रमात्रा तथा अनवच्छिन्नदेशसामान्य एवेति, एवमेकोऽर्थः प्रमीयते-परिच्छिद्यते, कथं न सर्वेषामेवैकाकारा प्रतिपत्तिरित्याह'स्वविषयनियमादिति स्व:-आत्मीयो विषयो-ज्ञेयः स्वश्चासौ विषयश्चेति स्वविषयः तस्मानियमात्-नियतत्वात्, अनेनैकान्ततः प्रमाणसम्प्लवव्यवच्छेदमाह, प्रतीतिभेदानुभूतेर्वैय्यधिकरण्यव्यवच्छेदं च, तथा तथा अग्न्यनुभवोपपत्तेः, 'न चे'त्यादि, न च ता ज्वलद्भास्वदाकारादिलक्षणाः प्रतिपत्तयो विप्रतिपत्तयो भवन्ति, सर्वाभिरपि तथा तत्परिच्छेदात्, तथा अनुभवसिद्धेः, तद्वन्नयवादा इति न विप्रतिपत्तयः, एतदुक्तं भवति
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy