________________
૨૮૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૩૫
यथाऽर्थः तथा व्यञ्जनम्, एवं हि सति वाच्यवाचकसम्बन्धो, नान्यथा, पुष्टप्रवृत्तिनिमित्ताभावेनेत्यध्यवसाय एवंभूत इति । इह चाध्यवसायो ज्ञाननय उक्तः, साक्षाच्छास्त्राधिकारात्, ज्ञेयः अस्यार्थनयः, वाचकस्तु शब्दनय इत्येवमवगन्तव्यमिति । 'अत्राहे'त्यादि एवमुक्तनीत्या (इदानीं) एकस्मिन्नर्थे घटादौ अध्यवसायनानात्वात् विज्ञानभेदात् ननु विप्रतिपत्तिप्रसङ्ग इति, ननुशब्दो मीमांसायां, मीमांसनीयमेतत्-एवं विप्रतिपत्तिप्रसङ्ग इति-विरुद्धा प्रतिपत्तिविप्रतिपत्तिः तस्याः प्रसङ्गोऽनिष्टमित्यर्थः, न ह्येकनिमित्ताः अनेकाः प्रतिपत्तयो भवितुमर्हन्ति, कृष्णे नीलादिप्रतिपत्तय इवेत्यभिप्रायः, एवं पूर्वपक्षमाशङ्याह-'अत्रोच्यत'इत्यादिना, अत्र विरुद्धाः प्रतिपत्तिः, न चैकान्तेनैकनिमित्ता अतः साध्व्येवेति यथे' त्यादिना दर्शयति, यथा सर्वं जगदनेकावयवात्मकमपि सत् एकं, कुत इत्याह'सदविशेषात्' सत्त्वेनाभेदात्, अविशेषेण सच्छब्दवदिति प्रतीतिसिद्धेः, एवं सर्वं द्वित्वं, द्वयोर्भावो द्वित्वं जीवाजीवात्मकत्वात् सर्वस्य, तथोभयभेदश्च प्रतीतिभेदात्, न हि सत्प्रतीतिमात्रं जीवादिप्रतीतेरिति, एवं सर्वं त्रित्वं, त्रयाणां भावः त्रित्वं द्रव्यगुणपर्यायावरोधात्सर्वस्य, इहान्वयि द्रव्यं, गुणा-रूपादयः, पर्याया:-कपालादयः इति प्रतीतिः, अत्रापि भेदनिमित्तमिति त्रिषु सर्वस्यावरोधः, एवं सर्वं चतुष्कं, चतुर्णां भावः चतुष्कं चतुर्दर्शनावरोधात् सर्वस्य, चक्षुर्दर्शनादीनि चत्वारि दर्शनानि तैः सर्वस्यावरोधो-ग्रहणं, विशेषाणामपि कथञ्चित् सामान्यभेदादिति, एवं सर्वं पञ्चत्वं पञ्चानां भावः अस्तिकायावरोधात् सर्वस्य पञ्चभिरस्तिकायैर्धर्मादिभिरवरुद्धत्वादित्यर्थः, एवं सर्वं षट्कं, षण्णां भावः, षड्द्रव्यावरोधाच्च षड् द्रव्याणि धर्मास्तिकायादीन्येव कालावसानानि, 'कालश्चेत्येके' इति (५-३८) वचनात्, भिन्नश्च कथञ्चिद्रव्यपरिणामोऽस्तिकायपरिणामात्, प्रदेशसंघातद्रवणनिमित्तभेदादिति । प्रकृतयोजनामाह- 'यथे'त्यादिना, यथैताः सदादिप्रति