________________
સૂત્ર-૩૫ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૮૫ बहुषु घटेषु 'नामादिविशेषितेष्वि'ति नामस्थापनाद्रव्यभावविशिष्टेषु साम्प्रतेषु-वर्तमानेषु अतीतेषु-अतिक्रान्तेषु अनागतेषु-भाविषु घटेषु सम्प्रत्ययो घट इति सामान्याध्यवसायः सङ्ग्रहः, सामान्यप्रधानत्वादिति, एवं तेष्वेव घटेषु एकद्विबहुनामादिरूपेषु 'लौकिकपरीक्षकग्राह्येषु' लोके विदिता लौकिका:-अव्युत्पन्नमतयः परीक्षकास्तु-शास्त्रव्युत्पन्नमतय इति, एतद्ग्राह्येषु तत्फलार्थमविप्रतिपन्नाः, 'उपचारगम्येष्वि'ति समुद्रो घट इत्यादिनीतेर्यथास्थूलार्थेष्विति सूक्ष्मसामान्यव्यपोहेन सम्प्रत्ययो घट इत्यध्यवसायो व्यवहारो विशेषप्रधानत्वादिति, तथा 'तेष्वेवे'त्यादि, तेष्वेव घटेषु 'सत्सु' विद्यमानेषु (साम्प्रतेषु-वर्तमानेषु) सम्प्रत्ययो घट इत्यध्यवसायः ऋजुसूत्रः । एवं 'तेष्वि'त्यादि, तेष्वेव साम्प्रतेषुवर्तमानेषु 'नामादीनां' नामस्थापनाद्रव्यभावानामन्यतमग्राहिषु यस्माद्यस्य शब्दस्य नम्यमानः पदार्थो वाच्यः न तस्य स्थापना न तस्य द्रव्यं न तस्य भाव इत्यतो नामादीनां घटानां ये शब्दा अन्यतमं-नामस्थापनादिकं गृह्णाति तेऽन्यतमग्राहिणस्तेषु, एतेष्वपि 'प्रसिद्धपूर्वकेषु' प्रसिद्धः पूर्वो येषां प्रथमसङ्केतस्ते प्रसिद्धपूर्वाः त एव प्रसिद्धपूर्वकाः तेषु, नामादीनामन्यतमवाचकेषु, सम्प्रत्ययस्तथा घट इत्यध्यवसायः साम्प्रतः, शब्दः सामान्य इत्यर्थः, एवं 'तेषा'मित्यादि, तेषामेव घटादीनां साम्प्रतानां-वर्तमानावधिकानां सम्बन्धी अध्यवसायासक्रमः' अध्यवसायो-ज्ञानं तदुत्पादकमभिधानमप्यध्यवसायः तस्यासक्रमः अन्यत्र वाच्ये अप्रवृत्तिः, न हि घटादिभेदेन कुट उच्यते, भिन्नप्रवृत्तिनिमित्तत्वात्, इहैव निदर्शनमाह-'वितर्कध्यानवदि'ति, वितर्क:-श्रुतं तत्प्रधानं ध्यानं वितर्कध्यानं तद्वत्, एतच्चैकत्ववितर्कं, द्वितीयमिह गृह्यते इत्यध्यवसायः समभिरूढ इति । 'तेषामेवे'त्यादि, 'तेषामेव' अनन्तरनयपरिगृहीतघटादीनां यौ व्यञ्जनार्थों तयोर्व्यञ्जनार्थयोरन्योऽन्यापेक्षार्थग्राहित्वमिति स्वप्रवृत्तिनिमित्तभावेन यथा व्यञ्जनं तथाऽर्थो