________________
२८४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૩૫ तव्यमिति तदर्शयन्नाह-जीवादीन् सप्त पदार्थान् प्रागुद्दिष्टान् नयन्ति इति नयाः, तद्धा एवं सन्तस्तानेव नयन्ते, अनेन कर्तृकरणानां वास्तवं न्यायमधिकृत्य कथञ्चिद्भेदमाह, इत्यत्र बहु वक्तव्यं तत्तु नोच्यते, ग्रन्थविस्तारभयादिति, 'अत्राहे'ति पूर्ववत्, किमेते नैगमादयो नयास्तन्त्रान्तरीयाः तन्यन्ते-विस्तार्यन्ते अर्था अनेनास्मिन्निति वा तन्त्रंप्रवचनं तस्मादन्यत् कापिलादि तन्त्रान्तरं तस्मिन् भवाः कुशला वा तन्त्रान्तरीया वादिनः स्वशास्त्रसिद्धार्थवदनेन, आहोस्विदित्युत स्वतन्त्रा एव 'चोदकपक्षग्राहिण इति' दुरुक्तादीनि चोदयतीति चोदकः तस्य पक्षो-विषयः तं ग्रहीतुं शीला इति, मतिभेदो-बुद्धिभेदस्तेन विप्रधाविता:अयथार्थनिरूपका इति, एतत्परिहारार्थमाह-'अत्रोच्यते' इत्यादि, न एते तन्त्रान्तरीयाः, ते हि निविषया एव, अवधारणदोषात्, नापि स्वतन्त्रा एव चोदकपक्षग्राहिणः मतिभेदेन विप्रधाविताः, तदसम्बद्धप्रलापित्वादिति, 'ज्ञेयस्ये'त्यादि, ज्ञेयस्यार्थस्य जीवादिघटादेः अध्यवसायान्तराण्येवैतानि, विज्ञानभेदा इत्यर्थः, वाच्यं ज्ञेयमधिकृत्यैतदुपदर्शयन्नाह-'तद्यथे'ति पूर्ववत् घट इत्युक्ते नैगमाध्यवसाय एवं मन्यते 'योऽसाविति यो लोकप्रसिद्धः 'चेष्टाभिनिवृत्तः' इति कुलालादिचेष्टानिष्पादितः, किमाकार इत्याह-'ऊर्ध्वकुण्डलोष्टायतवृत्तग्रीवः' ऊर्ध्वकुण्डलोष्ठश्चासावायतश्च वृत्तग्रीवश्चेति समासः, तथा चोर्ध्वं परिकुण्डलं वृत्तावौष्ठो यस्य एवं आयता-दीर्घा वृत्ता-समपरिधि ग्रीवेति, तथा अधस्ताद्-अधोभागे परिमण्डलो-वृत्तः, एवं जलक्षीरादीनां आहरणधारणसमर्थः, आहरणं देशाद्देशान्तसञ्चारणं, धारणं तेषामेव देशनियतं, एतत्प्रत्यलं उत्तरगुणनिर्वर्तनया-आपाकजरक्ततादिगुणपरिसमाप्त्या निर्वृत्तो-निष्पन्नः द्रव्यविशेष इति मृद्रव्यभेदः, तस्मिन्नेवमात्मके एकस्मिन्नेव विशेषवतिशुक्लपीतादिविशेषयुक्ते तज्जातीयेषु वा तत्प्रकारेषु वा सर्वेष्वविशेषाद्अभेदेन सामान्येन परिज्ञानम्-अवबोधो नैगमः, तथा एकस्मिन् घटे