SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ સૂત્ર-૩૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ ૨૮૩ वाचकोऽप्यत एव हेतोः, अर्थोऽपि तत्क्रियाशून्यो न स इति, तथा अर्यमाणत्वाभावात्, अतो यदैव योषिन्मस्तकाधिरूढो जलाद्यानयनाय चेष्टते तदैव घटः, घटवाचकोऽपि घटशब्दोऽस्य तदैवेत्यध्यवसाय एवम्भूतः । एतानि वाक्यानि सूत्राणि इति केचित्, तत्तु न वृत्त्यभावात्, तन्नयलक्षणवाक्यान्येवेति । उक्तं नयलक्षणं, एतेषां चाद्याश्चत्वारोऽर्थनयाः, अर्थप्रधानत्वाच्छब्दोपसर्जनाः, शेषास्तु शब्दनयाः, शब्दप्रधानत्वात् अर्थोपसर्जना इति । 'अत्राहे'त्यादि, अत्रावकाशे यथोदितगृहीतनयस्वरूपश्चोदक आह-'उद्दिष्टा' अभिहिता लक्षणतः 'भवता' त्वया नैगमादयो नयाः, 'तन्नया इति कः पदार्थ इति, तन्नया इति लौकिकवाचोयुक्तिः,तद्राजा कीदृश इति यथा, इह नयाः शब्दनया गृह्यन्ते, यदाह-नया इत्यस्य कः पदार्थ इति, तदस्य पदार्थत्वोपपत्तेः, कोऽर्थ इति वा, अनभिधानं गम्यार्थव्यपोहेन वाच्यार्थसंग्रहार्थं, कः पदार्थ इति को वाच्योऽर्थः ?, अनेककारकसन्निधाने सति कः प्रत्ययार्थो ग्राह्य इति प्रश्ननिमित्तं, एवं चोदकेन प्रश्ने कृते सत्याचार्य आह'तत्रोच्यत' इत्यादि, नयाः प्रापका इत्यादिना कर्बर्थः प्रदर्श्यते, नयन्त इति नयाः, सामान्यादिरूपेणार्थं प्रकाशयन्तीत्यर्थः, प्रापका इत्यनेन नयतेरन्तीतण्यर्थता ख्याप्यते, प्रापयन्त्यात्मनि तं तमर्थं स्वाभिमताभिरुपपत्तिभिरिति प्रापकाः, कारका इत्यादिभिस्तु नयतेरन्तरतापि भवति, अनेकार्थत्वाद् धातूनामिति दर्शयति, कुर्वन्ति तद् तद्विज्ञानमात्मन इति कारकाः, एवं साधयन्ति तं तमात्मीयं योगिनमिति साधकाः, एवं निर्वर्त्तयन्ति तथा आत्मानमिति निर्वर्तकाः, एवं निर्भासयन्ति-दीपयन्ति स्वां स्वां व्यक्तिमिति निर्भासकाः, एवमुपलम्भयन्ति तांस्तान् सूक्ष्मान् अर्थविशेषानित्युपलम्भकाः, एवं व्यञ्जयन्ति-स्पष्टयन्ति तथा तथा स्वाभिप्रायेण वस्त्विति व्यञ्जकाः 'इत्यनर्थान्तर'मिति कथञ्चिद्भेदे सत्यपि पर्यायभेदा एत इत्यर्थः, सकर्मकाणां प्राप्येन कर्मणा भवि
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy