________________
૨૮૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૩૫ 'अभिधानपरिज्ञानं' अभिधानं-शब्दः परिज्ञानम्-अवबोधः अभिधानं च परिज्ञानं चाभिधानपरिज्ञानं यच्च ऋजुसूत्र इति । शब्दलक्षणमाह"यथार्थाभिधानं शब्दः' यथार्थं च तदभिधानं च यथार्थाभिधानं, भावघटाभिधानमित्यर्थः, शब्द इति शब्दनयः, तदाश्रयोऽध्यवसाय इत्यर्थः, अयं च समानलिङ्गसङ्ख्यापुरुषकालवचनः, अतः स्वाति तारा नक्षत्रमित्यस्यावस्तु, तथा चाम्रकदम्बा वनं, तथा स पचति त्वं पचसि अहं पचामीत्यादि, तथा अग्नीष्टोमयाज्यस्य पुत्रो यति(भवि)तेत्येवमादि सर्वमवस्तु, परस्परव्याघातात्, नीलरक्तादिवत्, अयं च साम्प्रतादिभेदात्रिविध उक्त इति साम्प्रतलक्षणमाह-'नामे'त्यादिना, 'नामादिष्वि'ति नामस्थापनाद्रव्यभावेषु 'प्रसिद्धपूर्वकत्वादिति प्रसिद्धो-नितिः पूर्वंसंज्ञासंज्ञिसम्बन्धकाले, प्रसिद्धः पूर्वमिति प्रसिद्धपूर्वः, अयमेव प्रसिद्धपूर्वकस्वभावस्तस्मात् शब्दाद्-घटादेः-अर्थे भावरूपे तस्यैवाभिधेयत्वात् प्रत्यय इत्यध्यवसायः साम्प्रत इति, अयं चेह सामान्यशब्द एवेति सप्त नयाः, अन्ये त्वनेकवाचकैकशब्दानभ्युपगमेनास्य भेदमाहुः, सिंहादावनेकस्मिन्नर्थे हरिशब्दानभ्युपगमात् । समभिरूढलक्षणमाह'सत्सु अर्थेष्वि'त्यादि, सत्सु-विद्यमानेषु वर्तमानपर्यायापन्नेषु अर्थेषुघटादिषु घटः कुटः कुम्भ इत्येवमनेकप्रवृत्तिनिमित्तसमुपलक्षणेषु 'असंक्रम' इत्यन्यत्रागमनं, शब्दस्य प्रवृत्तिनिमित्तं विहाय, घटशब्दस्य कुटार्थवत्यसंक्रमाध्यवसायः समभिरूढ इति, घटनाद् घटः कुटनात् कुटः कुम्भनात् कुम्भ इति भिन्नप्रवृत्तिनिमित्ता एवैते शब्दा घटकुटादिशब्दवदिति पर्यायशब्दाभावः, इन्द्रादिशब्दानामपि इन्दनशकनपूर्दारणादिक्रियाभेदादिति । इत्थम्भूतलक्षणं त्वदः-'व्यञ्जनार्थयोरेवंभूत' इति व्यञ्जनं-शब्दः तदभिधेयोऽर्थः तयोर्व्यञ्जनार्थयोः एवं पर्यायाभाववद्वाच्यवाचकप्रवृत्तिनिमित्तभावे भूतो यथार्थ एवंभूत इति, यथा घटशब्दो न कुटार्थवाचकः, प्रवृत्तिनिमित्ताभावात् एवं नाचेष्टावदर्थ