________________
સૂત્ર-૩૫ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૮૧ परिक्षेप्तुं शीलमस्येति सर्वपरिक्षेपी, सामान्यग्राहीत्यर्थः, चशब्दौ पृथक्पृथक्स्वातन्त्र्यख्यापनपरौ, शब्दनयः (त्रिभेदः) त्र्यंशः, तानाह 'साम्प्रते'त्यादिना, साम्प्रतवस्त्वाश्रयणात् साम्प्रतः, नानार्थसमभिरोहणात् समभिरूढः, यथाभूतः-एवम्भूतोऽन्वर्थप्रधानत्वात्, इति समुच्चये परिसमाप्तौ वा, 'अत्राहे'त्यादि अत्राधिकारे आह परः, किमेषां नैगमादीनां लक्षणमिति, प्रश्नोत्तराभिधित्सयाऽऽह-अत्रोच्यतेनिगमेष्वि'त्यादि, निश्चयेन गम्यते उच्चार्यते प्रयुज्यते येषु शब्दास्ते निगमा-जनपदास्तेषु निगमेषु-जनपदेषु येऽभिहिताः उच्चारिताः शब्दाघटादयस्तेषामर्था-जलाद्यानयनार्थक्रियासमर्था घटादय एव, शब्दार्थप्रतिज्ञानं च वाच्यवाचकभावेन, सोऽयमित्थं प्रपञ्चः, किमित्याह'देशसमग्रग्राही नैगम'इति देशो-विशेषः देशत्वादेव समग्रं-सामान्य समग्रव्याप्तेः एतद्ग्राही नैगमः, सौवर्णो घटः घट इति च ग्रहणात्, उभयग्रहणेऽपि नय एव, स्वविषयप्राधान्यादिति । सङ्ग्रहलक्षणमाह'अर्थाना'मित्यादिना, अर्थानां-घटादीनां सर्वैकदेशसङ्ग्रहणं सङ्ग्रहः, सर्व-सामान्यं सर्वव्याप्तेः देशो-विशेषः देशत्वादेव, तयोः सर्वैकदेशयोः सामान्यविशेषात्मकयोः एकीभावेन सङ्ग्रहणं सङ्ग्रहः, सन्मात्राविशेषात् तदतिरिक्तवस्त्वभावादिति । व्यवहारलक्षणाभिधित्सया त्वाह'लौकिके'त्यादि, लोके-मनुष्यादिस्वभावे ये विदितास्ते लौकिका:पुरुषाः तैः समः-तुल्यः, यथा चैते विशेषैर्व्यवहरन्ति तथाऽयमपीति 'उपचारप्रायः' उपचारबहुलः, अन्यत्र सिद्धस्यार्थस्यान्यत्राध्यारोप उपचारः यथा कुण्डिका श्रवति पन्था गच्छतीत्यादि, इह कुण्डिकास्थं जलं श्रवति, पथिस्थाः पुरुषा गच्छन्तीति, अत एव 'विस्तृतार्थः' विस्तीर्णाध्यवसायः व्यवहार इति । ऋजुसूत्रलक्षणं तु 'सता'मित्यादि, सतां-विद्यमानानां, नासतां खपुष्पादीनां, सतामपि साम्प्रतानां, नातीतानामनागतानाम् अर्थानां-घटादीनां, नानर्थानां कल्पितानां,