________________
૨૬૨ શ્રી તત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
સૂત્ર-૩૨ मिथ्यादर्शनेन तत्त्वार्थाश्रद्धानरूपेण परिग्रहात्-अध्यासात् कारणात्, किमित्याह-'विपरीतग्राहकत्वम्' अयथावस्तुपरिच्छेदित्वमेतेषांमत्यादीनां, तस्माद्विपरीतग्राहकत्वात् अज्ञानानि भवन्ति, मिथ्यात्वलक्षणौदयिकभावयोगादित्यर्थः, 'तद्यथे'त्युदाहरणोपन्यासार्थः, मतिज्ञानमिति ज्ञानं मिथ्यात्वोदयाद्विपरीतग्राहकं मत्यज्ञानं भवति, एवं श्रुताज्ञानं, एवं विभङ्गज्ञानमिति, विभङ्गावयवं व्याचष्टे-अवधेविपरीतो-मिथ्यात्वोदयाद्विपरीतग्राहकः अतीन्द्रियार्थविषयो बोधः विभङ्ग इत्युच्यते शास्त्र इति, ततश्च न तदेव ज्ञानं तदेवाज्ञानम्, अपि तु निमित्तभेदात् ज्ञानाज्ञानव्यवस्थेति भावार्थः । 'अत्राहे'त्यादि, अत्र ज्ञानेतरविभाग उक्ते चोदक आह-'उक्तं भवता' प्रतिपादितं त्वया, किमित्याह-'सम्यगि'त्यादि, सम्यग्दर्शनेनतत्त्वार्थश्रद्धानरूपेण परिगृहीतम्-अधिष्ठितं मत्यादित्रयं ज्ञानं भवत्यविपरीतार्थग्राहि, अन्यथा मिथ्यादर्शनपरिगृहीतमज्ञानमेवेत्ययथार्थग्राहीति यावता मिथ्यादृष्टयोऽपि च लौकिकास्तन्त्रान्तरीयाश्च एते च द्विविधा इत्याह-'भव्याश्चाभव्याश्च' सिद्धिभवनयोग्या भव्याः अयोग्यास्त्वभव्याः, एते च 'इन्द्रियनिमित्तान्' उपलब्धौ स्पर्शनादीन्द्रियापेक्षान् ‘अविपरीतान्' यथावस्थितान् ‘स्पर्शादीनन्' स्पर्शरसगन्धवर्णशब्दान् उपलभन्ते स्वतः उपदिशन्ति चान्येभ्यः, कथमित्याह-'स्पर्श' शीतादिकं 'स्पर्श' इत्येवमुपलभन्ते उपदिशन्ति च, तथा रसं-तिक्तादिकं रस इत्येवं, एवं शेषान्-गन्धरूपशब्दानवैपरीत्येन, ततः कथमेतदिति, न बाधकं प्रत्ययमन्तरेण मिथ्यादृष्टिज्ञानानामयथार्थग्राहितेत्यर्थः, अत्रोच्यते गुरुवर्गेण, 'तेषां ही'त्यादि तेषां-मिथ्यादृष्टीनां यस्माद्विपरीतमेतद्-अधिकृतज्ञानं मिथ्यात्वग्रहावेशाद्भवत्यतोऽज्ञानमेवेति ॥१-३२॥
ટીકાર્થ– અહીં સૂત્રમાં અવધિ શબ્દનું ગ્રહણ કરવું જોઇએ, તેના બદલે અવિભંગ શબ્દનું ગ્રહણ કર્યું તે અવધિજ્ઞાનનો વિપર્યય વિભંગ છે એમ જણાવવા માટે છે. આ ત્રણ જ્ઞાનભેદો અજ્ઞાન પણ હોય અને