Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
alas
प्रवासकृत्यम् ।
( गङ्गाधरविरचितम् ) श्रीगणेशाय नमः ।
स्वप्रकाशविमख्यिबीजाकुरलतां पराम् । भृङ्गाटवीसुनिला(यां) ब्रह्मानन्दमयीं नुमः ॥१॥ धनार्जने तथापत्तो प्रवासे समुपस्थिते । अग्ने र प्रतिष्ठाप्य पल्यामृत्विक्षु धर्मवित् ॥२॥ प्रवसेद् विधिना सम्यक् तस्य कृत्यमिहोच्यते । प्रवासागमनयोर्नान्दीश्राद्धं न स्यानिषेधतः ॥ ३ ॥ स्वाग्निसमन्वितग्रामसीमामतीत्य यो निशि । वासः प्रवसनं प्रोक्तमृषिभिस्तत्वदर्शिभिः ॥ ४ ॥ अध्वर्यविहरेदग्नीन्स्वामी कुर्यादुपस्थितिम् ।। यत्र कत्रन्तरं प्राप्त परिक्रमविधानतः ॥ ५॥ समाख्या प्राप्तिकाध्वर्यास्तत्रैवान्य x x x तत् । कर्ता तेनोद्धरेत्स्वामी हतन्न्यायविदो मतम् ।। ६ ।। नयेति प्रतिमन्त्रं तु नर्यादीनां यथाक्रमम् । अमन्त्रं वा ह्युपस्थान सभ्यावसथ्ययोर्नतिः ॥ ७ ॥ संबजेद् वाग्यतो मत्या गत्वा वाचो विसर्जनम् । उपस्थाने कृते नैव प्रवसेच्चेदुपस्थितिः ।। ८ ॥ आगतस्य तदा कार्या मनुसूत्रादथापि च ।। उपस्थाने कृते देवान्मानुषात्प्रोषितो यदा ॥९॥ प्रवासोपस्थितिः कार्या विहाराभिमुखेन तु । वाङ्मयो नेह यहवेति मन्त्रादुपस्थितिः ॥ १० ॥ एतच्छाखान्तरे प्रोक्तमुपबद्धं प्रसङ्गतः । प्रवसेच्चेत्समारूढे आगच्छेद् वानुपस्थितिः ॥११ ।। कौषीतकीस्मृतेरन्ये निर्मथ्योपस्थिति जगः । रजोदोषे समुत्पन्ने सूतके मतकेऽपि वा ॥ १२ ॥ प्रवसेच्चेत्तदाग्नीनां विनाशः स्यादिति स्थितिः । अग्निहोत्रस्य कालेन प्रवसेत्पर्वसन्धिषु ।। १३ ।। न तथा तीर्थयोरग्निनाशोऽन्यथा तथाचिरम् । भूयास्तु दशरात्राच्चेत्प्रवासस्तु भवेत्तदा ।। १४ ॥ आगत्योपस्थितेरूवं शंस्यमुद्धृत्य संस्कृतिम् । कृत्वाज्यस्य चतुर्जुवां गृहीत्वा जुहुयात्ततः ॥ १५॥
For Private and Personal Use Only

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108