Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८
મુકુંદ લાલજી વાડેકર मांसमथुनसंकल्पो वपनं च यथोदितम् । विधाय देवयज्ञस्य त्यागान् दर्शऽथ पैतृके ॥ ६६ ॥ अथर्वहोमयोस्त्यागौ पिण्डानामपसव्यतः । त्यागाच्छाद्धस्य निर्वत्यर्त्य) भूतयज्ञादिका यजि: ।। ६७ ।। पराग्निपक्वमन्नं तु नाश्नीयात्पर्वणोः सदा। यस्त्वन्येनाहितोऽग्निः स्यात्स पराग्निर्न लौकिकः ॥ १८ ॥ अतो लौकिकपक्वस्य न निषेधोऽपरे जगुः । सर्वदा लौकिके पाकः सर्वाधानवतो गृहे ॥ ६९॥ ततः कश्चिद्विशेषस्तु प्रवासेनोपलभ्यते । अपरे नैवमेवाहुलौकिक: स्वाहितात्परः ।। ७० ।। तत्पक्वस्य निषेधोऽतो विना तु गुडगौरसे। एवं हि स्मृतिवाक्यानां स्वारस्यमुपलभ्यते ॥ ७१ ॥ केचित्पन्यिकालेऽपि नाद्यादन्नं पराग्निजम् । इत्याहह्यसाध्यत्वात्पचेस्तन्न समञ्जसम् ॥ ७२ ।। वाक्याभावात्तथा पर्वकाले तस्य निषेधतः । दृश्यते कल्पसूत्रे च प्रवसंस्तु यदाहुतम् ।। ७३ ॥ अन्ये वाथ प्रभुजीत तथोपोष्यापि पर्वणि । संस्थितं तु तदा मन्येताथ भुजीत साग्निकः ॥ ७४ ॥ गृह्यग्नौ पचनं प्रोक्तमदृष्टार्थं ततोऽपि च। प्रसङ्गाद् दृष्ट कार्यस्य सिद्धत्वान्न पृथक्पचिः ॥ ७५ ॥ न च दृष्टार्थता तस्य यज्ञपार्श्ववचो यथा । पचनाग्नौ पचेदन्नं सूतके मृतकेपि वा ।। ७६ ॥ अपक्त्वा तु वसेद्रात्रि पुनराधानमर्हति । तस्माच्छद्धाविशेषात्तन्नियमो न तु वाक्यतः ॥ ७७ ।। भोजनव्यतिरेकेण न पातव्यं जलं यथा । तथैवात्रापि विज्ञेयं सम्यक् संकल्पजं फलम् ।। ७८॥ भक्षयत्फलमूलानि गव्यमैक्षव्यमेव च । भ्राष्ट्र भ्रष्टान् यवान् भक्ष्यद्रव्याभावादशक्तितः ॥ ७९ ॥ पुष्टो दिवि विधानेन संस्थाप्यानलकं तदा। स्वान्नं पक्त्वा भुजि: कार्या स्मतिवाक्यवशात्तथा ॥८॥ उपवासनिषेधोऽपि सूत्राच्छा (त्सा)सायनाद यथा । नोपवास: प्रवासे स्यात्पत्नी धारयते व्रतम् ॥ ८१ ॥ छान्दोग्ये प्रवसन्नोपवसेत्पल्या व्रतं भवेत् । इत्याहुरिति सूत्रस्म विकल्पो गैहि भाष्यतः ॥ ८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108