Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay

View full book text
Previous | Next

Page 50
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Yate a स्वामिनि प्रोषिते न स्युः क्रियाः सोत्तरवेदिकाः । इति श्रीमण्डनाचार्यैः स्वग्रन्थे लिखितं तथा ॥ ३२ ॥ प्रवसत्याहिताग्नौ यद्याग्रायणमुपागतम् । वीहिस्तम्बमग्निहोत्रीमिति पक्षं समाश्रयेत् ।। ३३ । भूरिशोऽन्ये विशेषाश्च ततो ज्ञेयाश्च याज्ञिकैः ।। प्रथमोऽप्यग्निहोत्रादेः प्रयोग: प्रोषिते भवेत् ॥ ३४ ।। आघानस्य निषेधोक्तेमण्डनादौ च तद्यथा । आधानपुनराधाने न स्त: पत्यो प्रवासिनि ।। ३५ ॥ स्मार्ते त्वग्नियुतं कर्म कारयेच्च यथोदितम् । प्रोषितस्याथ यत्कर्म होमादौ तद्विविच्यते ।। ३६ ।। विहाराभिमुखः सर्व कर्म कुर्यादतन्द्रितः । यत्तूक्तं रेणुमिश्रेण त्यागार गोस्यतश्चरेत् ॥ ३७॥ न तद्युक्तं विहा[राभिमुखः कुर्यादिति श्रुतेः । त्यजेत्तद्दिकुमुखः शुचिरिति मण्डनतोऽपि च ॥ ३८ ॥ विहाराद्यपवर्गान्तं सकलं मनसा स्मरेत् । होमेऽत्र संचरध्यानमाचम्याग्निप्रजापती ॥ ३९ ॥ इष्ट्वा नर्याहुतीस्त्यक्त्वाथर्वाहुत्योर्यजिस्ततः । मनसाग्नेरभिध्यानमुपस्थानेऽग्निहोत्रके ॥ ४० ॥ उपस्थानद्वयं चाग्न्योः केचित्तु मह इत्यपि । उपस्थानमिति प्रोचुरथाचम्य तु संचरम् ॥ ४१ ।। विसृजन्मनसा त्वग्नेरथर्वस्य युपस्थितिः । प्रातःशंस्थाहुतिः पूर्वा सौर्यमन्त्रात् घुपस्थितिः ।। ४२ ।। मह इत्यपि केचित्तु ततः सम्यस्य भस्मनः । अग्नि: प्रजापतिः सायं प्रात: सूर्यः प्रजापतिः ।। ४३ ॥ इज्य: स्मातें उपास्थानं केचिदूचुः स्मृतेर्न वा । मध्याह्ने च ततः सायं वैश्वदेवयजिः स्मृता ॥ ४४ ।। पचनं यदि कुर्वीत प्र[व] सन्नग्निमान् द्विजः । समारोपे कृते चाग्नौ वैश्वदेवस्तु लौकिके ॥ ४५ ॥ इतीह वाक्यतः पञ्च यज्ञाः स्युरिति केचन । तथा शांख्यायनस्यापि कारिकावचनं यथा ॥ ४६ ॥ प्रवासे तु पञ्चश्राद्धे साग्निको लौकिकेनले । वैश्वदेवस्तु तत्र स्यादग्नीकरणमेव च ।। ४७ ॥ गर्गाचार्यमतेनैव वैश्वदेवः प्रवासके । अथातो धर्मजिज्ञासापद्धती दर्शितं स्फुटम् । ४८ ।। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108