Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
પ્રથામકૃત્ય-ગુજરાતના વિદ્વાન અગાધરના એક દુલ ભ યથ
अग्नीषोमो यजेत् द्विस्तु पौर्णमास्यं तु दर्शके । यजेद्विष्णुं तथैन्द्राग्नी सान्नाध्यं चेत्पुरोदितम् ।। ११७ ।। इष्ट्वा साधारणं चातो ब्रह्माणं च प्रजापतिम् । विश्वान्देवास्ततो द्यावापथिवी च बलेस्ततः ।। ११८ ॥ विश्वान्देवास्तथा भूतगृह्यानावकमाहुतेः ।
अग्नि प्रजापति विश्वान्देवान्स्विष्टकृतं यजेत् ।। ११९ ।। आहुति बलिदानानां यागं कृत्वाहुतेस्ततः । अग्नि वायुं च सूर्यं च द्विग्नवरुणो यजेत् ।। १२० ।। अयासं वरुणादींश्च वरुणं च प्रजापतिम् । दक्षिणाद्रव्यसंत्यागो बहिर्यागस्ततो भवेत् ॥ १२१ ॥ ब्राह्मणं तर्पयेत्पश्चाद् वैश्वदेवादिकं ततः । यथोक्तं कर्कपक्षाणां विशेषोऽतः प्रतन्यते ॥ १२२ ॥ अव वैश्वदेवस्य त्यागा सर्वत्र दर्शवे । पञ्चयज्ञान्वितिर्मर्त्यपिण्डयज्ञयजिस्ततः ॥ १२३ ॥ तत्रापसव्यतो होमत्यागौ न प्रस्तरे यजिः । कणे चान्ते त्यजेद्भागं श्रौते स्मार्तथ कथ्यते ।। १२४ ।। इन्द्राग्नी एव सान्नाय्ये वासुदेवमतादिह ।
'बलिप्रदानानामर्वाग्ब्राह्मणतर्पणान् ॥ १२५ ॥ यजिनैव भवेद् बर्हियोगोऽन्यद्यत्समानकम् । यत्तूतं रे[णु]मिश्रेण नीविबन्धविसर्जने ॥ १२६ । भवतोऽत्र गृहान्नश्च जपेत्तन्न समञ्जसम् । पिण्डकर्तुरयं धर्म: प्रवासे तु कथं भवेत् ॥ १२७ ॥ श्रुतिसूजन (स) दाचारविरुद्धत्वादुपेक्षणम् ।
॥ १३० ॥
प्रवासे तु पदार्थानां यदि विस्मरणं भवेत् ॥ १२८ ॥ स्मरणादि ततो विष्णोः कृत्वा कुर्यादुपस्तुतान् । अन्धभास्करकारेण युक्तमेतदुदीरितम् ।। १२९ ।। अ* (र्च) नमनादिष्टमादिष्टं वाग्न्यभावतः । कथं स्यान्न क्रियाक्षेपादाधातुं युज्यतेऽत्र तु [ एता ]ताग्निसूत्रेण नैव प्रतिनिधिर्भवेत् । अग्नेरङ्गानुरोधेन प्रधानस्यानुबाधतः ।। १३१ ।।। अनङ्गं [तु] स्वरूपं स्यात्स्मृत्युक्तविषयो ह्ययम् । प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत ॥ १३२ ॥ स्मरणादेव तद्विष्णोः संपूर्ण स्यादिति श्रुतिः । प्रत्यागच्छत् समित्पाणिरनुपेत्य गुरूनपि ॥ १३३ ॥ वाग्यमोम ( ? ) तिदेशात्स्यादा गच्छेदग्निसन्निधौ । अध्वयुविहरेदग्नीस्वामी कुर्यादुपस्थितिम् ॥ १३४ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
५

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108