Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प
મુકુંદ લાલજી વાડેકર
स्वयमुदस्य वा न्यायात्स्वामी कुर्यादुपस्थितिम् ।। शंसमागन्ममन्त्रेण समिधं च तणानि च] ॥ १३५ ॥ उपविश्य क्षिपेदग्नावग्निरिति ** स्थिति:।। कार्या नर्यस्य तत्रापि [वा ग्वत्समित्तृणानि च ॥ १३६ ॥ अथर्यमुपतिष्ठताग्निरिति * * मन्त्रतः । तथा समित्तणान्यत्र यद्वा तूष्णीमुपस्थितिः ।। १३७ ।। परतन्त्रे यदा गच्छेत्तत्रैवोपस्थितिर्भवेत् । सभ्यगृह्यो नमस्कृत्य तथैव कुलदेवताः ॥ १३८ ॥ गृहानेति गृहान् गत्वा क्षेमायेति विशेद्गृहान् । पुत्रं दृष्ट्वा * * * * (पुनस्त्वङ्गा)दङ्गादिति शिरस्ततः ॥ १३ ॥ जिघ्रत्प्रजापतेष्वेति त्रिर्गवां स्वेति मन्त्रतः । ********* * * ज्याय सूत्रतः ॥ १४० ॥ दक्षिणेऽस्य जपेत्कणे चा * प्रैयधे मन्त्रक ? । * * प्रष्ठानि सव्ये तु प्रतिपुत्रं प्रवर्तते ॥ १४१ ॥ पुत्र्यास्तु केवलं तूष्णीमाजिच्छिरस्ततः । कृत्वापराधगृह्यास्तु तद्दिने नैव ताडयेत् ।। १४२ ।। कामं श्व इति सूत्रेण यथाकाममतः परम् । विहायाग्नि यदा गच्छेदध्वानं शतयोजनम् ॥ १४३ ॥ आगत्योपस्थितेरूर्ध्वमचिरात्पुनराहरेत् । त्रिकाण्डमण्डनेनात्र विशेषा भूरि दर्शिताः ॥ १४४ ।। विज्ञेयास्तु ततः [सर्वे] विद्वद्भिर्नेह लिख्यते । श्रीकर्कदेवभाष्यादिगुरुवाक्यं च सर्वशः ।। १४५ ।। यथामति विचार्येदं साग्नेः कृत्यं प्रवासजम् । रचितं तेन मे शम्भुः प्रीयतां यज्ञभुग्गरुः ।। १४६ ।। यन्मयोक्तमिहाज्ञानात्तन्महत्स्वल्पमन्यथा । * * * * * त्सुशोध्यं ** का अयमञ्जलिः ॥ १.७ ।। यदत्र सौष्ठवं किंचित्तद्गुरोरेव केवलम् । यदत्रासौष्ठवं किचित्तन्ममैव गुरोर्न हि ।। १४८ ।। वर्षे षोडशके त्रिषष्टिसमये वासन्तिके माधवे । पूर्णेन्दौ रविवासरे * * गते मार्तण्डके मण्डले । श्रीमदगुर्जरमण्डले द्विजयुते श्रीस्तम्भतीर्थे शुभे
श्रीमत्पाठकरामचन्द्रतनयो गङ्गाधरोऽलीलिखत् ॥ १४९ ॥ ॥ इतिश्रीमन्महायाज्ञिकदीक्षितहरिशंकरानुगतश्रीमन्महायाज्ञिकपाठकरामचन्द्रसूनुगङ्गाधरविरचितं प्रवासकृत्यं समाप्तम् ।।
। शुभमस्तु । संवत् १७३९ वर्ष मार्गशी(र्ष) मासे कृष्णपक्षे सप्तम्यां लिखितमिदमात्मार्थ परार्थे च ।। शुभमस्तु ।। .
For Private and Personal Use Only

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108