Book Title: Swadhyay 1994 Vol 31 Ank 01 02
Author(s): Mukundlal Vadekar
Publisher: Prachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
પ્રવાસકૃત્યં-ગુજરાતના વિકાન મંગાધરને એક દુર્લભ ગ્રંથ
तथा कात्यायनेनापि परिशिष्टे प्रदर्शितम् ।। स्वेऽग्नावेव भवेद्धोमो लौकिके न कदाचन ॥ ४९ ।। न ह्याहिताग्नेः स्वं कर्म लौकिकेऽग्नी विधीयते । अग्निसंयक्तकर्मार्थमस्विजः परिकल्पनम् ॥ ५० ॥ दर्शितं च तथा तेन प्रवासे समुपस्थिते । निक्षिप्याग्नि स्वदारेषु परिकल्प(लप्य) च (ऋत्विजम् ।। ५१॥ प्रवसेत्कार्यवान्विप्रो मृषैव न चिरं क्वचित् । तथा शांख्यायने गृह्ये गृह्येऽग्नौ स्यादचो यथा ।। ५२ ॥ नोपवास: प्रवासे स्यात्पत्नी धारयते व्रतम् । पुत्रो भ्राताथवा पत्नी शिष्यो वास्य बलि हरेत् ॥ ५३ ॥ तथोक्तं रेणुमिश्रेण वैश्वदेवं प्रकृत्य च । प्रोषिते वाप्यशक्ते वा स्वामिन्यनधिकारिणी(णि) ॥ ५४ ।। पुत्रो भ्राताथवा पत्नी शिष्यो वा जुहुयादिति । तथा प्रवासकर्माणि प्रकृत्योक्तं च तेन च ॥ ५५ ॥ प्रवासे नैत्यक कर्म कृत्वा [चै]व यथाविधि । संकल्प्य पूर्वतत्या(स्त्या)गान्स्तान् कुर्यात्पश्चयज्ञवत् ॥ ५६ ।। पितृणामपसव्यं तु] मनुष्याणा(णां)निवीतिना । दक्षिणोदङमुखेन स्यात्क्रमात्पितृमनुष्ययोः ॥ ५७ ।। नात्र जाननिपातः स्यात्परार्थत्वादिति श्रुतिः । स्वकाले पितृयज्ञः स्यादेवं पक्षादि कर्म च ।। ५८ ।। तथा चाशार्कभाष्येन वैश्वदेवः प्रवासके । तथा ब्रह्मपुराणेऽपि श्राद्धं नैव वचो यथा ॥ ५९॥ अमावास्यादिनियत प्रोषिते सहचारिणी (णि)। पत्यौ तु कारयेच्छाद्धमन्येनाप्यत्विगादिना ॥६॥ अमाश्रादं स्मृतौं तुक्तं मासि संवत्सरादृते । कर्काचार्यमते साग्नेः पाकश्राद्धं च तद्गृहे ॥ ६१ ॥ तस्य गृह्याग्निसाध्यत्वादनग्नेरत एव तु । श्राद्धे नवाधिकारो यत्पाकसंस्थासु पठ्यते ॥ ६२॥ अष्टकापार्वणश्राद्धमिति श्रीगौतमेन तु । तथा च मनुना प्रोक्तं गूढार्थं वचनं यथा ।। ६३ ॥ न दर्शन विना श्राद्धमाहिताग्नेद्विजन्मनः । न पैतृयज्ञिको होमो लौकिके ग्नी विधीयते ॥ ६४ ।। भरिवाक्यानि सन्त्वत्र विस्तरादुपरम्यते । पोर्णमासे तथा दर्श कृत्यमिष्टेरथोच्यते ॥ ६५ ॥
For Private and Personal Use Only

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108