SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir alas प्रवासकृत्यम् । ( गङ्गाधरविरचितम् ) श्रीगणेशाय नमः । स्वप्रकाशविमख्यिबीजाकुरलतां पराम् । भृङ्गाटवीसुनिला(यां) ब्रह्मानन्दमयीं नुमः ॥१॥ धनार्जने तथापत्तो प्रवासे समुपस्थिते । अग्ने र प्रतिष्ठाप्य पल्यामृत्विक्षु धर्मवित् ॥२॥ प्रवसेद् विधिना सम्यक् तस्य कृत्यमिहोच्यते । प्रवासागमनयोर्नान्दीश्राद्धं न स्यानिषेधतः ॥ ३ ॥ स्वाग्निसमन्वितग्रामसीमामतीत्य यो निशि । वासः प्रवसनं प्रोक्तमृषिभिस्तत्वदर्शिभिः ॥ ४ ॥ अध्वर्यविहरेदग्नीन्स्वामी कुर्यादुपस्थितिम् ।। यत्र कत्रन्तरं प्राप्त परिक्रमविधानतः ॥ ५॥ समाख्या प्राप्तिकाध्वर्यास्तत्रैवान्य x x x तत् । कर्ता तेनोद्धरेत्स्वामी हतन्न्यायविदो मतम् ।। ६ ।। नयेति प्रतिमन्त्रं तु नर्यादीनां यथाक्रमम् । अमन्त्रं वा ह्युपस्थान सभ्यावसथ्ययोर्नतिः ॥ ७ ॥ संबजेद् वाग्यतो मत्या गत्वा वाचो विसर्जनम् । उपस्थाने कृते नैव प्रवसेच्चेदुपस्थितिः ।। ८ ॥ आगतस्य तदा कार्या मनुसूत्रादथापि च ।। उपस्थाने कृते देवान्मानुषात्प्रोषितो यदा ॥९॥ प्रवासोपस्थितिः कार्या विहाराभिमुखेन तु । वाङ्मयो नेह यहवेति मन्त्रादुपस्थितिः ॥ १० ॥ एतच्छाखान्तरे प्रोक्तमुपबद्धं प्रसङ्गतः । प्रवसेच्चेत्समारूढे आगच्छेद् वानुपस्थितिः ॥११ ।। कौषीतकीस्मृतेरन्ये निर्मथ्योपस्थिति जगः । रजोदोषे समुत्पन्ने सूतके मतकेऽपि वा ॥ १२ ॥ प्रवसेच्चेत्तदाग्नीनां विनाशः स्यादिति स्थितिः । अग्निहोत्रस्य कालेन प्रवसेत्पर्वसन्धिषु ।। १३ ।। न तथा तीर्थयोरग्निनाशोऽन्यथा तथाचिरम् । भूयास्तु दशरात्राच्चेत्प्रवासस्तु भवेत्तदा ।। १४ ॥ आगत्योपस्थितेरूवं शंस्यमुद्धृत्य संस्कृतिम् । कृत्वाज्यस्य चतुर्जुवां गृहीत्वा जुहुयात्ततः ॥ १५॥ For Private and Personal Use Only
SR No.536121
Book TitleSwadhyay 1994 Vol 31 Ank 01 02
Original Sutra AuthorN/A
AuthorMukundlal Vadekar
PublisherPrachyavidya Mandir Maharaja Sayajirao Vishvavidyalay
Publication Year1994
Total Pages108
LanguageGujarati
ClassificationMagazine, India_Swadhyay, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy